पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४२]
१६७
शकटासुरवधवर्णनम् ।


 कुमारकस्येति । कुमारकस्य पदाम्बुजाभ्यामाहतमनो विपर्यगाद् व्यत्यस्तावयवमभूदू, मया दृष्टं मयापि दृष्टमिति बालका जगुः ॥ ६ ॥

भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्कयत दृष्टपूतनैः ॥ ७॥

 भियेति । इदं वचोऽतिदुर्घटमत्यन्तानुपपन्नम् । अत्र हेतुः- कुमारकाणां बालानां विशेषतस्तदा भिया किञ्चिदप्यजानतामिति । भवतः प्रभावः शक्तिस्तदविदुरैस्तदनभिज्ञैः कैश्चिदितीरितमुक्तम् । दृष्टपूतनैर्नन्दोपनन्दादिभिर्मनागीषत् त्वत्प्रभावादिदमित्थमित्याशङ्कयतैव ॥ ७ ॥

प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ८ ॥

 प्रवालेति । पदं क्षतं व्रणितं किं, करौ विरोजितौ भग्नौ न्विति वदन्त्यः प्रसर्पन्त्या करुणया तत्कार्यसन्तताश्रुधारापनयनप्रवृत्त्या तरङ्गिताश्चलिता अङ्गना गोप्यस्त्वदङ्गं मन्दं मन्दमापस्पृशुः ॥ ८ ॥

अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे ।
इति स्म सगृह्य पिता त्वदङ्गकं मुहुर्मुहुः क्ष्लिष्यति जातकण्टकः ॥ ९ ॥

 अये इति । अपायनिश्चये सत्यतथादर्शनादये इत्यतर्कितोपनते । जगत्पतेर्विष्णोः कृपातरङ्गपातात् करुणालवप्राप्तेरद्य परिपातं रक्षितं मे सुतं देहीति पिता नन्दः क्ष्लिष्यति स्म ॥ ९ ॥

अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नो दृष्टममुष्य तत् कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥

 अनोनिलीन इति । अनोनिलीनस्तद्रूपः । ननु विहिंसित इत्युक्तं, तत्