पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४२]
१६५
शकटासुरवधवर्णनम् ।


अहो कुमारो मयि दत्तदृष्टि: स्मितं कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयीश! किं किं न कृतं वधूभिः ॥ ८ ॥

 अहो इति । हे ईश ! विष्णो ! त्वयि गोपबालरूपिणि वधूभिरङ्कारोपणाक्ष्लेषचुम्बनलालनादि किं किं न कृतम्, अहो भाग्यवत्यन्ता इति भावः ॥ ८ ॥

भवद्वपुः स्पर्शनकौतुकेन करात करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्वतुलामलासी: ॥ ९ ॥

 भवदिति । वधूजनपाणिपरम्पराया अरुणसरोजमालायमानतया तव च तद्ध्यालम्बिप्रतिनवमधुलुब्धलोलम्बदेशीयतया तत्तुलामलासीः कलितवानसीत्यर्थः ॥

निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे ! गान्माम् ॥ १० ॥

 निपाययन्तीति । यशोदा कतमां कीदृशीं दशां विस्मयौत्सुक्यापायशङ्कादैवप्रार्थनवैवश्यादिरूपामवस्थां न भेजे प्राप्तवती ॥ १० ॥

इति पूतनाशरीरदाहवर्णनं बालकलालनेन यशोदादीनां निरतिशयानन्दवर्णनं च

एकचत्वारिंशं दशकम् ।


कदापि जन्मर्क्षदिने तब प्रभो! निमंन्त्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसाढ़ौ ववृते व्रजेश्वरी ॥ १ ॥

 कदापीति । निमन्त्रिता आमन्त्रिता ज्ञातयस्तद्वध्वो महीसुराश्च यया । महतोऽनसः शकटस्य । महानसादौ पाकगेहादौ ववृते प्रवृत्ताभूत् ॥ १ ॥

ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ २ ॥


  • अलासीरिति 'ला आदाने' इत्यतो लुङ् ।