पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४०]
१६११६१
चार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनम् ।

तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
 जगत्रितयमङ्गल ! त्वमिह पाहि मामामयात् ॥ १० ॥

 भवदिति । भवतः कुशलकाम्ययाभ्युदयेच्छया ॥ १० ॥

इति योगमायानयनादिवर्णनम् एकोनचत्वारिंशं दशकम् ।


तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥ १ ॥

 तदन्विति । अमन्दशुभास्पदं लोकोत्तरगुणाकरं नन्दं करदानकृते यदुराजाय वार्षिकषष्ठांशदानार्थं गतं मथुरापुरीस्थो भवत्पिता वसुदेवो विदितः कंससहायजनानां पूतनातॄणावर्तादीनामुद्यमः सकलबालहननोत्साहो येन ॥ १ ॥

अयि सखे! तव वालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
इति भवत्पितृतां व्रजनायके समधिरोग्य शशंस तमादरात् ॥ २ ॥

 अयीति । वसुदेवो नन्दं प्रति त्वद्नेहस्थो बालो मत्पुत्र इति नोवाच, किन्तु व्रजनायके नन्दे भवत्पितृतामारोप्य तमादराच्छशंस । स्वपुत्रवत् सावधानं रक्षितुमेतदिति ज्ञातव्यम् ॥ २ ॥

इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ ३ ॥

 इहेति । अनिमित्तशतानि दुर्निमित्तानि । कटकसीनि व्रजे ॥ ३ ॥

 नन्दस्य बजागमनात् पूर्वं ललितवेषायाः पूतनाया ब्रजप्रवेशमाह ---

अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना ।
तरलषद्पदलालितकुन्तला कपटपोतक! ते निकटं गता ॥ ४ ॥