पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
[स्कन्धः- १०
नारायणीये

सपदि सा हृतवालकचेतना निशिचरान्वयजा किल पूतना ।
व्रजवधष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ ५ ॥

 सपदीति । हृतवालकचेतना बालघातिनीत्यर्थः ॥ ५ ॥

ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ ६ ॥

 ललितेति । युवतिभिर्गोपीभिः प्रतिरोद्धुं लङ्घयितुमपारिताशक्या सती भवनान्ते निषेदुषी उपविष्टा प्रददुषी दत्तवती । कपट आत्मा मनो मूर्तिर्वा यस्य ॥ ६ ॥

समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ ७ ॥

 समधिरुह्येति । बालकानां लोपनेन मारणेन रोषितः प्रतिचुचूषिथ आम्लाद् वक्रे निवेश्यौष्ठाभ्यामवपीड्य बहुशो निष्ठीवनं कृतवान् ॥ ७ ॥

असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना ।
निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ ८ ॥

 असुभिरिति । असुभिः प्राणैः समं सह धयति पिबति सत्यसौ पूतना स्तनितोपमो मेघध्वनिसदृशो निस्वन आक्रन्दितं यस्याः सा तथा ॥ ८ ॥

भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ ९ ॥

 भयदेति । भयदद्घोषणस्य भीषणविग्रहस्य च श्रवणेन दर्शनेन च मोहिता वल्लवा गोपा यत्र ॥ ९ ॥