पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४१]
१६३
पूतनाशरीरदाहवर्णनम् ।

भ्रुवनमङ्गल ! नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
त्वमयि वातनिकेतननाथ! मामगदयन् कुरु तावकसेवकम् ॥ १० ॥

 भुवनेति । अगदयन् नीरोगं कुर्वन् ॥ १० ॥

इति वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनं पूतनामोक्षवर्णनं च

चत्वारिंशं दशकम् ।


व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित् पदार्थ शरणं गतस्त्वाम् ॥ १ ॥

 व्रजेति । शौरिवच 'इह च सन्त्यनिमित्तशतानि' (दश. ४०. क्ष्लो. ३) इति । समाव्रजन् स्वगृहमागच्छन् निप्पिष्टाः पतनजवेन पतिताश्चूर्णीकृताश्च निश्शेषतरवो गव्यूत्यन्तरस्थद्रुमा येन तं पूतनादेहं कञ्चित् पदार्थमतिमहत्त्वाददृष्टपूर्वतया च किमिदमिति ज्ञातुमशक्यम् एतादृशसङ्कटे [१] भ्रमन् बालकः क्वेति परवशस्त्वद्रक्षणाय त्वामेव शरणं गतः रक्षितृत्वेनाश्रितवान् ॥ १ ॥

निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ २ ॥

 निशम्येति । उदन्तं पूतनावृत्तान्तम् । घोररूपदर्शनाद् भयं, त्वया पातितमिति विस्मयः । अथ विदूरे कुठारैः खण्डशः कृत्वा बहुभिर्दूरं नीत्वा देहुर्भस्मीचक्रुः ॥ २ ॥

त्वत्पीततस्तनतच्छरीरात समुच्चलचुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेष किं चान्दनो गौग्गुलवोऽथवेति ॥ ३ ॥

 त्वदिति । त्वत्पीतत्वात् पूतं रजस्तमोविलये शुद्धसत्त्वमयः स्तनो यस्मि-


  1. 'टेऽत्र मद्वाल' क. ख. पाठः.