भ्रुवनमङ्गल ! नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । |
भुवनेति । अगदयन् नीरोगं कुर्वन् ॥ १० ॥
इति वार्षिककरदानाय नन्दस्य मथुराप्रवेशवर्णनं पूतनामोक्षवर्णनं च
चत्वारिंशं दशकम् ।
व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । |
व्रजेति । शौरिवच 'इह च सन्त्यनिमित्तशतानि' (दश. ४०. क्ष्लो. ३) इति । समाव्रजन् स्वगृहमागच्छन् निप्पिष्टाः पतनजवेन पतिताश्चूर्णीकृताश्च निश्शेषतरवो गव्यूत्यन्तरस्थद्रुमा येन तं पूतनादेहं कञ्चित् पदार्थमतिमहत्त्वाददृष्टपूर्वतया च किमिदमिति ज्ञातुमशक्यम् एतादृशसङ्कटे [१] भ्रमन् बालकः क्वेति परवशस्त्वद्रक्षणाय त्वामेव शरणं गतः रक्षितृत्वेनाश्रितवान् ॥ १ ॥
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । |
निशम्येति । उदन्तं पूतनावृत्तान्तम् । घोररूपदर्शनाद् भयं, त्वया पातितमिति विस्मयः । अथ विदूरे कुठारैः खण्डशः कृत्वा बहुभिर्दूरं नीत्वा देहुर्भस्मीचक्रुः ॥ २ ॥
त्वत्पीततस्तनतच्छरीरात समुच्चलचुच्चतरो हि धूमः । |
त्वदिति । त्वत्पीतत्वात् पूतं रजस्तमोविलये शुद्धसत्त्वमयः स्तनो यस्मि-
- ↑ 'टेऽत्र मद्वाल' क. ख. पाठः.