पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
[स्कन्धः - १०
नारायणीये

द्गणैः पणायिता स्तुता जग्मुषी गतवती भुवि मन्दिराण्येयुषी नृणामनुग्रहाय तत्तत्स्थानाभिमानितया स्थितवती ॥ ६ ॥

प्रगे पुनरगात्मजावचनमीरिता भूभुजा
 प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति वभ्रमुनिर्भयाः
 कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ७ ॥

 प्रग इति । पुनः परेछुः प्रगेऽहर्मुखे भूभुजा कंसेन प्रलम्बाद्या अगात्मजाया देव्या वचनमीरिता उक्ताः ॥ ७ ॥

ततः पशुपमन्दिरे त्वयि मुकुन्द ! नन्दप्रिया-
 प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
 मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ८ ॥

 तत इति । ततः पशुपमन्दिरे नन्दगेहे प्रसूतिशयने शेत इति प्रसूतिशयनेशयस्तस्मिन् किञ्चिदञ्चत्पदे चलिताल्पकमृदुलाङ्घ्रिपल्लवे त्वयि रुवति रुदति सति ॥ ८ ॥

अहो खलु यशोदया नवकलायचेतोहरं
 भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
 मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ९ ॥

 अहो इति। यशोदया भवदर्शनस्पर्शनस्तनदानादिना पुण्यवन्तो मुनयोऽपि जिता अधःकृताः खलु अहो ॥ ९ ॥

भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
 प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।