पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३९]
१५९
योगमायानयनादिवर्णनम् ।


विमुक्तचिकुरोत्करस्त्वरितमापतन भोजरा-
 डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ ३ ॥

 तत इति । त्वदनुजाया यशोदाकन्याया रुदितरवेण क्षपितनिद्र * वेगैः प्रबुद्धैर्द्रवद्भिर्धावद्भिर्भटोत्करै रक्षिपुरुषैर्निवेदितया, देवक्या अष्टमः पुत्रो जात इति प्रसववार्तयैवार्तिमान् मरणभययुक्तः कथमियं कन्यका भवेदिति बहुविधचिन्ताकुलतयातुष्ट इव ॥ ३ ॥

ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
 दसाविति किशोरिकां भगिनिकाकरालिङिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप-
 न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ४ ॥

 ध्रुवमिति । मधुहरस्य मधुसूदनस्य । अजां मायाम् ॥ ४ ॥

ततो भवदुपासको झटिति मृत्युपाशादिव
 प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टवाहुस्फुर-
 न्महायुधमहो गता किल विहायसा दिघुते ॥ ५ ॥

 तत इति । ततः प्रमुच्य कंसकराद् विगलिता विकसन्त्यष्टबाहुस्फुरन्महायुधानि यस्मिन्निति क्रियाविशेषणम् । विहायसा मार्गेण गता दिघुते शुशुभे ॥ ५ ॥

नृशंसतर! कंस ! ते किमु मया विनिष्पिष्टया
 बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो ! खलमुदीर्य तं जग्मुषी
 मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ६ ॥

 नृशंसेति । नृशंसतर! अतिदुष्कर्मकारिन् ! ! तं खलं कंसमुदीर्योक्त्वा मरु-


  • क्षपितनिद्रैर्वैगेन द्रवद्भिश्चेति तु युक्तम् ।