वत्त इति । त्वत्तः सुधाहरणस्य योग्यं फलं व्यर्थपरिश्रमं परेषु दैत्येषु । ते दैत्याः सुरैर्व्यगृह्णन् कलहं चक्रुः ॥ ६ ॥
त्वं कालनेमिमथ मालिमुखाञ्जघन्थ |
त्वमिति । शुष्केणार्द्रेण च दुष्करवधो नमुचिस्तस्मिन् उभयात्मकेन फेनेन लूने छिन्नशिरस्के ब्रह्मणा प्रेषितस्य नारदस्य गिरा त्वं रणं न्यरुणः ॥ ७ ॥
योपावपुर्दनुजमोहनमाहितं ते |
योषेति। ते योषावपुः स्त्रीरूपमाहितं कृतं श्रुत्वा ते पदं वैकुण्ठम् । अभिमतं योषिद्रुपदर्शनम् । अथो प्रार्थनानन्तरम् ॥ ८ ॥
आरामसीमनि च कन्दुकघातलीला- |
आरामेति । विगलद्वसनां मारुतहृतदुकूलाम् । यद्यप्यनङ्गरिपुरयं, तथापि मनोभूवेगात् त्वां समालिलिङ्ग ॥ ९ ॥
भूयोऽपि विद्रुततीमुपधाव्य देवो |