सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
[स्कन्धः - ८
नारायणीये

 वत्त इति । त्वत्तः सुधाहरणस्य योग्यं फलं व्यर्थपरिश्रमं परेषु दैत्येषु । ते दैत्याः सुरैर्व्यगृह्णन् कलहं चक्रुः ॥ ६ ॥

त्वं कालनेमिमथ मालिमुखाञ्जघन्थ
 शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्कार्द्रदुष्करवधे नमुचौ च लूने
 फेनेन नारदगिरा न्यरुणो रणं तम् ॥ ७ ॥

 त्वमिति । शुष्केणार्द्रेण च दुष्करवधो नमुचिस्तस्मिन् उभयात्मकेन फेनेन लूने छिन्नशिरस्के ब्रह्मणा प्रेषितस्य नारदस्य गिरा त्वं रणं न्यरुणः ॥ ७ ॥

योपावपुर्दनुजमोहनमाहितं ते
 श्रुत्वा विलोकनकुतूहलवान् महेशः ।
भूतैः समं गिरिजया च गतः पदं ते
 स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ ८ ॥

 योषेति। ते योषावपुः स्त्रीरूपमाहितं कृतं श्रुत्वा ते पदं वैकुण्ठम् । अभिमतं योषिद्रुपदर्शनम् । अथो प्रार्थनानन्तरम् ॥ ८ ॥

आरामसीमनि च कन्दुकघातलीला-
 लोलायमाननयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
 वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥ ९ ॥

 आरामेति । विगलद्वसनां मारुतहृतदुकूलाम् । यद्यप्यनङ्गरिपुरयं, तथापि मनोभूवेगात् त्वां समालिलिङ्ग ॥ ९ ॥

भूयोऽपि विद्रुततीमुपधाव्य देवो
 वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्त्वमुवाच देव्यै
 तत्तादृशस्त्वमव वातनिकेतनाथ! ॥ १० ॥