पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३०]
१३१
वामनचरितवर्णनम् ।


 भूय इति । विद्रुतवतीं प्राद्रवन्तीमुपधाव्य वीर्यस्य रेतसः प्रमोक्षेण । त्वया सम्मानितः तव महत्त्वं देव्यै उवाच ॥ १० ॥

इति देवानाममृतोपलव्धिप्रकारवर्णनं मोहिनीदर्शनेन शिवस्य धैर्यच्युतिवर्णनं च

एकोनत्रिंशं दशकम् ।


 प्रतिज्ञानिर्वहणादौ धर्मे महाबलिर्दृष्टान्त इति तत्कथां तदुपयोगिभगवदवतारचरितं च प्रकाशयिष्यन् प्रथमं बलिविजयमाह---

शक्रेण संयति हतोऽपि वलिर्महात्मा
 शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं
 चक्रे वशे स तव चक्रमुखादभीतः ॥ १ ॥

 शक्रेणेति । शक्रेण हतोऽपि शुक्रेण मृतसञ्जी[१]विन्याख्यया विद्यया जीवि[२]ततनुः । विश्वजिदाख्येन क्रतुना वर्धित ऊष्मा शक्तिर्यस्य । भयेन युद्धे निलीनाः सुरा यस्याम् । स बलिश्चक्रमुखात् सुदर्शनादभीतः, प्रह्लादवंश्यत्वात् ॥ १॥

पुत्रार्तिदर्शनवशाददितिर्विषण्णा
 तं काश्यपं निजपतिं शरणं प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
 सा द्वादशाहमचरत् त्वयि भक्तिपूर्णा ॥ २ ॥

 पुत्रेति । पुत्रस्यार्तिः इन्द्रस्य स्वर्गापहरणजा पीडा । तदुदितं काश्यपोदितम् ॥ २ ॥

तस्यावधौ त्वयि निलीनमतेरमुष्याः
 श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं
 गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ ३ ॥


  1. 'वन्या वि' ख. पाठः.
  2. 'त:' क. पाठः.