पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
[स्कन्धः - ८
नारायणीये

 तस्येति । तस्य पयोव्रतस्यावधावन्ते । प्रलपन् त्वं भर्तर्येवंरूपं मां भावयन्ती भर्तारमुपतिष्ठेत्यादि कथयन् अयासीः तिरोभूः ॥ ३ ॥

त्वं काश्यपे तपसि सन्निदधत् तदानीं
 प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
प्रामृत च प्रकटवैष्णवदिव्यरूपं
 सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ४ ॥

 त्वमिति । काश्यपे काश्यपसम्बन्धिनि तपसि तपःसम्भृते वीर्ये सन्निधत् प्रविष्टः । प्रकटवैष्णवदिव्यरूपं शङ्खचक्रगदापद्मकिरीटमकुटमकरकुण्डलश्रीवत्सकौस्तुभवनमालापीतवसनकाञ्चीनूपुराघुपलक्षितम् ॥ ४ ॥

पुण्याश्रमं तमभिवर्षति पुष्पवर्षे -
 र्हर्पाकुले सुरकुले कृतसूर्यघोष ।
बद्धवाञ्जलिं जय जयेति नुतः पितृभ्यां
 त्वं तत्क्षणे पटुतमं[१] वटुरूपमाधाः ॥ ५ ॥

 पुण्येति । तत्क्षण ए[२]व वटुरूपम् ॥ ५ ॥

तावत् प्रजापतिप्लुखैरुपनीय मौञ्जी-
 दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानव पुरीश! कृताग्निकार्य-
 स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ ६ ॥

 तावदिति । प्रजापतिमुखैर्ऋषिभिरुपनीय उपनयनाख्यं कर्म कृत्वा तैर्मौज्ञ्ज्यादिभिरर्च्यमान इति । सविता तस्य गायत्रीमुपदिदेश | बृहस्पतिर्यज्ञोपवीतं, पिता मौञ्जीं, भूमिः कृष्णाजिनं, सोमो दण्डम्, अदितिः कौपीनं, द्यौरछत्रं, ब्रह्मा कमण्डलुं, सप्तर्षयो दर्भान्, सरस्वत्यक्षमालां च ददौ । एवं देदीप्यमानमतिशयेन शोभमानं वपुर्यस्य, कृताग्निकार्योऽनुष्ठितसमिदाधानकर्मा प्रकृताश्वमेधं प्रारब्धाश्वमेधयागं बलिगृहं बलेर्यज्ञशालां प्रास्थिथाः प्रस्थितवान् ॥ ६ ॥


  1. 'रं' क. पाठ:.
  2. ′ व पटुतमं वटुरूपम् आधा: (दधौ ?)' क. पाठ:.