सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३०]
१३३
वामनचरितवर्णनम् ।


गांत्रेण भाविमहिमोचितगौरवं प्राग्
 व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
 दण्डं च दानवजनेष्विव सन्निधातुम् ॥ ७ ॥

 गात्रेणेति । भाविमहिमा विश्वरूपं, तदुचितं गौरवं प्रांगेव धरणीचलनेन व्यावृण्वता प्रकाशयता । परेषां दैत्यानामूष्मणः पराक्रमस्य तिरणार्थं वारणार्थम् । सन्निधातुं दण्डयितुम् ॥ ७ ॥

तां नर्मदोत्तरतटे हयमेधशाला-
 मासेदुपि त्वयि रुचा तव रुद्धनेत्रैः
भास्वान् किमेष दहनो नु सनत्कुमारो
 योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ८ ॥

 तामिति । आसेदुषि प्राप्तवति ॥ ८ ॥

आनीतमाशु भृगुभिर्महसाभिभूतै-
 स्त्वां रम्यरूपमसुर: पुलकावृताङ्गः ।
भक्त्या समेत्य सुकृती परिषिच्य पादौ
 तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥ ९ ॥

 आनीतमिति । त्वन्महसाभिभूतै र्प्रष्टतेजस्कैर्भृगुभिः शुक्रेणानीतं प्रतिगृह्य बलिनिकटं नीतम् । असुरो बलि: । तीर्थतीर्थं सर्वशोधकम् ॥ ९ ॥

प्रह्लादवंशजतया क्रतुभिर्द्विजेषु
 विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
 स त्वं विभो ! गुरुपुरालय ! पालयेथाः ॥ १० ॥

 प्रह्लादेति । भक्तोत्तंसप्रह्लादवंशजतया नु, क्रतुभिर्नु, द्विजेषु विश्वासतः सत्सङ्गान्नु, समस्तैरेतैर्नु (न) निश्चितं, बलिर्दितिजोऽपि तदिदं पादोदकस्य मूर्ध्नि