पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २९]
१२९
देवानाममृतोपलब्धिप्रकारवर्णनम् ।


का त्वं मृगाक्षि! विभजस्व सुधामिमामि-
 त्यारूढरागविवशानभियाचतोऽमृन् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या !
 इत्यालपन्नपि सुविश्वसितानतानीः ॥ ३ ॥

 केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवद्भिः कथं मयि विश्वस्यते इत्यालपन्नपि तदानीन्तनसप्रेमम्मितकटाक्षादिभिः[१] सुविश्वसितानतानीः ॥ ३ ॥

मोदात् सुधाकलशमेषु ददत्सु सा त्वं
 दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
 लीलाविलासगतिभिः समदाः सुधां ताम् ॥ ४॥

 मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्रभेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् वञ्चयितुं तद्विषयया ललिया विलासेन गत्यातिसमीपसञ्चरणेन च समदाः सम्यक् सुरेभ्य एवाददाः । तां जरामरणहारिणीं सुधामित्यर्थः ॥ ४ ॥

अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
 जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो निजरूपमेत्य
 स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ ५ ॥

 अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम्, एषास्मान् न वञ्चयेदिति । जोषं तूष्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यलावीः शिरोऽच्छिनः ॥ ५ ॥

त्वत्तः सुधाहरणयोग्यफलं परेष
 दत्त्वा गते लयि सुरैः खलु ते व्यगृह्णन् ।
घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
 व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ ६ ॥


  1. 'भिश्च सु' ग. पाठ:.