पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
[स्कन्धः - ८
नारायणीये


उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्रीपरिष्टया परिपुष्टमास विश्वम् ॥ ८ ॥

 उरसेति । त्वं च तरसैनामुरसा ममानिथ स्वोरसि निवासमकरोः । नान्यस्मिन् भावोऽनुरागो यस्याः सानन्यभावा । त्वदुरसि विलसन्त्यास्तस्या ईक्षणश्रियः सकरुणकटाक्षशोभायाः परिवृष्टया विश्वं परिपुष्टं सकलसम्पत्समृद्धम् आस अभूत् ॥ ८ ॥

 अथ वारुणी देव्युदभूदित्याह---

अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ ९ ॥

 अतीति । तमसोऽज्ञानस्य पदवीं हेतुभूतां वारुणीम् ॥ ९ ॥

 अथ धन्वन्तर्यवतारमाह--

तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
अमृतं कलशे वहन कराभ्यामखिलार्ति हर मारुतालयेश ! ॥ १० ॥

 इत्यमृतमथनवर्णनम् अष्टाविंशं दशकम् ।

उद्गच्छतस्तव करादमृतं हरत्सु
 दैत्येषु तानशरणाननुनीय देवान् ।
सद्यस्तिरोधिथ देव ! भवत्प्रभावा-
 दुद्यत्सयूथ्यकलहा दितिजा वभूवु: ॥ १ ॥

 उद्गच्छत इति । उद्गच्छतः प्रादुर्भवतः । अशरणाननन्यशरणान् । भवतः प्रभावः शक्तिर्माया तस्मादुद्यन् सयूथ्यकलहोऽन्योन्यविवादो येषां ते ॥ १ ॥

श्यामां रुचापि वयसापि तनुं तदानीं
 प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।
पीयूषकुम्भकलहं परिमुच्य सर्वे
 तृष्णाकुलाः प्र[१]तिययुस्त्वदुरोजकुम्भे ॥ २ ॥

 श्यामामिति । वयसापि श्यामां यौवनमध्यस्थाम् । भङ्गुरां नम्राम् । त्वदुरोजकुम्भे पीयूषादप्यतिमधुरे ॥ २ ॥


  1. 'परिय' घ. पाठः.