पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २१]
१०७
जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् ।

 श्रीति । साङ्खयं प्रकृतिपुरुषविवेकज्ञानं, योगोऽष्टाङ्गः, ताभ्यां नुतिभिश्च ॥ ९ ॥

 इमं जम्बूद्वीपं परितः क्रमात् प्लक्षशाल्मलिकुश क्रौञ्चशाकपुष्करनामानः षड् द्वीपाः । तत्र क्रमादर्केन्दुवह्नयम्बुवायुब्रह्मरूपेण तत्रत्या भगवन्तं भजन्तीत्याह----

प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं
 द्वीपे भजन्ति कुशनामनि वह्निरूपम् ।
क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
 त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ १० ॥

 अथ ज्योतिरनीकात्मकस्य भगवत उपासनाप्रकारमाह----

सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैक्ष्च
 पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।
त्वं शिंशुमारवपुषा महतामुपास्य:
 सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ! ॥ ११ ॥

 सर्वैरिति । उड्डुप्रकरैरक्ष्विन्यादिभि: ग्रहै: सूर्यादिभिर्यथाक्रमं पुच्छाद्यवय वेषूपासकैरभिकल्प्यमानैरुपलक्षितस्त्वं शिंशुमारवपुषा अवाक्शिरसः कुण्डलीभूतशरीरस्य शिंशुमारस्य वपुरिव वपुर्यस्य, तद्रूपेण महतां महद्भिः सन्ध्यासु त्रिकालमुपास्यः ॥ ११ ॥

 अथ प्रपञ्चस्योद्धारकं शेषमूर्ति स्तौति -

पातालमूलभुवि शेषतनुं भवन्त
 लोलैककुण्डलविराजिसहस्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजगाङ्गनाभि-
 र्जुष्टं भजे हर गदान् गुरुगेहनाथ ! ॥ १२ ॥ २२ ॥

इति जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् एकविंशं दशकं सद्विकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

पञ्चमस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्खया २२१.