पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ षष्ठस्कन्धपरिच्छेदः


कृतेऽपि पापे भक्तानां यातना नैव नारकी ।
इति षष्टगतो विष्णोः स्तूयतेऽनुग्रहोऽधुना ॥

 अथाजामिलोपाख्यानमारमते अजामिलेत्येकादशभिः-

अजामिलो नाम महीसुरः पुरा चरन् विभो ! धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥ १ ॥

 अजामिल इति । पुराजामिलो नाम अजामिमकुलीनां स्त्रियं लात्यादत्त इत्यजामिल इति प्रसिद्धः कश्चिद् महीसुरो गृद्दाश्रमी स्वाश्रमोचितान् धर्मपथान् प्रवृत्तिनिवृत्तिनार्गान् चरन् अनुतिष्ठन् गुरोर्गिरा पितुर्निदेशन फलपुप्पसमित्कुशानाहतु काननमेय सुभृष्टमतिशयेन धृष्टं मिथ्याविलासादिभिः परमतिबञ्चनसमर्थं शीलं यस्याः, मदाकुलां मधुमदखेलगमनां काञ्चित् कुलटां पुंश्चलीं दृष्टवान् ॥१॥

स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्मसुत्सृज्य तया समारमन् ।
अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ २ ॥

 स्वत इति । ततश्च स्वतः प्रशान्तोऽप्यसौ तयाहृत आशयो यस्य स तथा स्वधर्मं सहधर्मचारिणीं चोत्सृज्य तथा सह समारमन् तस्याः कुडुम्बभरणायाधर्मकारी बभूव । पुनश्च दशमी भवन् जरठः सन् भवन्नामयुते नारायणाह्वये सुते बालके दशमपुत्रे रतिमतिस्नेहं दधौ ॥ २ ॥

स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनावलाज्जुहाव नारायणनामकं सुतम् ॥ ३ ॥

 स इति । मृत्युकाले मरणसमये मनागू ईषत् स्वस्मृतेर्भगवदुपासनाया या वासना संस्कारस्तद्वलाद् नारायणनामकं सुतं जुहाव नारायण ! इत्याजुहाव ॥ ३ ॥

दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीय पार्षदाचतुर्भुजाः पीतपटा मनोहराः ॥ ४ ॥