दुराशयस्येति । कुडुम्बासक्तचेतसोऽप्यस्य तदात्वे मरणदशायां निर्गतस्य त्वदीयनामाक्षरमात्रस्येत्यनेन भक्तिश्रद्धावृत्तिवर्णव्यक्तं[१]ताद्यभावो व्यज्यते, तथापि नारायणेत्यक्षरचतुष्टयस्य प्रभावाद् भवदीयपार्षदा विष्णुदूता अस्य पुरोऽभिपेतुः प्रादुर्भूताः ॥ ४ ॥
अमुं च सम्पाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलाढमी । |
अमुमिति । अमुमजामिलं सम्पाश्य पाशेन गले बद्ध्वा विकर्षतो भटान् यमभटान् अमी विष्णुदूता बलाद् विमुञ्चतेत्य[२] नेन वचननेनैवारुरुधुः । ते यमभटास्तदीयमजामिलस्येदं पापं निखिलं न्यवेदयन् ॥ ५ ॥
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः ! । |
भवन्त्विति । अनन्तरं च त्वत्पुरुषा विष्णुदूता यमभटानिदमुत्तरं बभाषिरे भोः पण्डिताः ! सत्यं भवद्भिरुक्तानि पापान्यस्य भवन्तु, किन्तु निष्कृते प्रायश्चित्ते कृतेऽपि कथं दण्डनमस्ति, अनेन च हरिनामग्रहणरूपं प्रायश्चित्तं कृतमेव, भवादृशां युप्मद्विधैर्धर्मराजकिङ्करैर्निष्कृतिः किं न विदितेति ॥ ६ ॥
ननु महतामपि पापानां नामग्रहणमात्रं प्रायश्चित्तमित्ययुक्तं, श्रौतस्मार्तादिप्रायश्चित्तान।मतिक्लेशमात्ररूपाणां वैयर्थ्यप्रसङ्गादित्याशङ्कयाह---
श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । |
श्रुतीति । व्रतानि चान्द्रायणादीनि, आदिशब्देन तीर्थस्नानादि । एता निष्कृतयः पापं पुनन्ति शोधयन्ति केवलं, न वासनां सजातीयकर्मोत्पादकं संस्कारमपि लुनन्ति । ततश्च पुनरपि पापं कुर्वन्ति । एवं चान्द्रायणादीनां पापात्यन्तिकनिवर्तकत्वाभावान्न मुख्यप्रायश्चित्तत्वम् । अनन्तस्य हरेः सेवा स्मरणकीर्तनादि तु द्वयीं पापं तद्वासनां च निकृन्तति उन्मूलयति ॥ ७ ॥