पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
[स्कन्धः – ६
नारायणीये


 अयं च मरणभयाकुलः सन् हरिनामोच्चारितवान्, अत इतः परं न भवद्दण्डनमर्हतीत्याह---

अनेन भो ! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।
यदग्रहीन्नाम भयाकुलो हरेरिति प्रभो! त्वत्पुरुषा वभाषिरे ॥ ८ ॥

 ननु नासौ म्रियमाणो हरिनामोच्चारितवान्, किन्तु पुत्रं तन्नामानमाजुहावैव । अतो न पापक्षय इत्याशङ्कयाह----

नृणामबुद्धयापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधांसि यथौषधं गदानिति प्रभो! त्वत्पुरुषा वभाषिरे ॥ ९ ॥

 नृणामिति । इदं भगवन्नाम कीर्तितं सदशेषाघौघहरं चेति धिया नामोञ्चारणीयम् । अतोऽन्यथाबुद्धयापि मुकुन्दकीर्तनमघौघान् दहति, दहनकणस्तूलपिण्डसञ्चयमिवोन्मूलयति । कथमस्य तादृशं सामर्थ्यमिति नानुयोजनीयम् । नाम्नो महिम्नः श्रूयमाणत्वाद् दृष्टत्वाचेत्याह - महिमेति । अस्य नाम्नस्तादृशोऽपरिच्छेद्यो महिमा विद्यते । तेषां सन्देहहानाय सदृष्टान्तमाह - यथेति । बालादिना अबुद्ध्या निक्षिप्तोऽग्निः अबुद्धयोपयुक्तमौषधं च यथा ॥ ९ ॥ .

इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृति कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥ १० ॥

 इतीति । इतीरितैः प्रतिबोधितैर्याम्यभटैरपासृतेऽपसरणे कृते सति भवद्भटानां गणे समूहे तिरोहिते अन्तर्हिते च सति असावजामिलो गङ्गाद्वारे कस्मिंश्चिद् देवसदने स्थित्वा कञ्चन कालं भवत्स्मृतिमाचरन् समाधिजये सति प्रादुर्भूतैस्तैरेव भवत्पार्षदैर्लब्धसारूप्यो विमानेन भवत्पदं वैकुण्ठं प्रापि अनीयत ॥ १० ॥

स्वकिङ्करावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यान शिशिक्षच्चकैःस देव! वातालयनाथ! पाहि माम् ॥ ११ ॥

 स्वेति । यमकिङ्करास्तु स्वामिने सर्वे निवेदयामासुः । यमस्तु स्वकिङ्कराणामावेदनेन शङ्कितः स्वभृत्यापराधः स्वस्मिन्नपि स्यादिति भीतः सन् त्वदङ्घ्रि-