पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २३]
१११
चित्रकेतूपाख्यानम् ।

भक्तेषु भवद्भिर्न गम्यतां भगवद्भक्ताः परिहरणीया युष्माभिरित्युच्चकैरतिनिर्बन्धेन स्वभृत्यानशिशिक्षत् शिक्षितवान् | तादृशभक्तवात्सल्ययुक्तस्त्वं पाहि ॥ ११ ॥

इत्यजामिलोपाख्यानं द्वाविंशं दशकं सैकम् ।


 एवमजामिलदृष्टान्तेन नृणामनुग्रहमुक्त्वा स्वर्गिणां भगवदनुग्रहं दर्शयितुं दक्षकथामारभते--

प्राचेतसस्तु भगवन्नपरोऽपि दक्ष-
 स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
आविर्बभूविथ तदा लसदष्टवाहु-
 स्तस्मै वरं ददिय तां च वधूमसिक्नीम् ॥ १ ॥

 प्राचेतस इति । प्राचीनबर्हिषः पुत्रा दश प्रचेतसः, तेषां पुत्रः प्राचेतसो दक्षः । अपरो ब्रह्मपुत्राद् दक्षादन्यः । स मनसैवेमाः प्रजाः सृष्ट्वा पुनस्तद्विवृद्धिकामस्त्वत्सेवनं व्यधित कृतवान् । त्वं च वरं त्वत्तः प्रभृति व्यवायधर्मेण प्रजासर्गो भविष्यतीत्येवं रूपं, तां पञ्चजनदुहितरम् असिक्नीं वधूं भाथीं च ददिथ दत्तवान् ॥ १ ॥

तस्यात्मजास्त्वयुतमीश ! पुनः सहस्रं
 श्रीनारदस्य वचसा तव मार्गमापुः
नैकत्रवासमृषये मुमुचे स शापं
 भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥ २ ॥

 तस्येति । तस्य दक्षस्य हर्यश्वसंज्ञा अयुतमात्मजा आसन् । पुनः शबलाश्वसंज्ञाः सहस्रं च सुता आसन् । ते सर्वेऽपि पितुरादेशात् सर्गवृद्धये तपः कुर्वन्तः श्रीनारदस्य वचसा निवृत्तिमार्गोपदेशरूपेण तव मार्ग मोक्षमापुः प्राप्तवन्तः । स दक्षः क्रुद्धो मुनये श्रीनारदाय नैकत्रवासं सदासञ्चारित्वं शापं मुमुचे । ऋषिस्तु भक्तोत्तमत्वेन तमनुग्रहमेव मेने ॥ २ ॥