पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
[स्कन्धः - ६
नारायणीये


षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
 दौहित्रसुनुरथ तस्य स विश्वरूपः ।
त्वत्स्तोत्रवमिंतमजापयदिन्द्रमाजी
 देव! त्वदीयमहिमा खलु सर्वजैत्रः ॥ ३ ॥

 षष्ट्येति । ततः षष्ट्या दुहितृभिरदितिदित्याद्याभिः कुलौघान् स्थिरचरभेदसमूहान् सृजतोऽस्य दक्षस्य दौहित्रो दितेः पुत्रस्त्वष्ट । तत्सूनुस्त्वाष्ट्रो विश्वरूपः । सः त्वत्स्तोत्रेण नारायणात्मकेन वर्मणा वर्मितं कृतरक्षम् इन्द्रम् आजौ देवासुरयुद्धे अजापयद् +जयमकरोत् ॥ ३ ॥

 अथ वृत्रवधप्रस्तावाय प्राग्जन्मकथामाह---

प्राक् शूरसेनविषये किल चित्रकेतुः
 पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
लब्ध्वैकपुत्रमथ तत्र हते सपत्नी-
 सङ्गैरमुह्यदवशस्तव माययासौ ॥ ४ ॥

 प्रागिति । अङ्गिरसः प्रभावात् तत्कृतयज्ञोच्छिष्टप्राशनेन ज्येष्ठभार्यायामेकं पुत्रं लब्ध्वा तत्र तस्मिन् पुत्रे सपत्नीसङ्घैर्हते ॥ ४ ॥

तं नारदस्तु सममङ्गिरसा दयालुः
 सम्प्राप्य तावदुपदर्थ सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं
 त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ ५ ॥

 तमिति । अङ्गिरसा समं सह सुतस्य मृतस्य जीवं योगबलेनोपदर्श्य दर्शयित्वा अहं कस्य पुत्रोऽस्मीति तस्य गिरा नृपतेर्विमोहं त्यक्त्वा ॥ ५ ॥

स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा
 तोषाय शेषवपुषो ननु ते तपस्यन् ।


 + जयन्तं प्रयोजितवान् ।