सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २३]
चित्रकेतूपाख्यानम् ।

विद्याधराधिपतितां स हि[] सप्तरात्रे
 लब्ध्वाप्यकुण्ठमतिरन्चभजद् भवन्तम् ॥ ६ ॥

 स्तोत्रमिति । शेषवपुषोऽनन्तमूर्तेः ते तव हरेस्तोषाय प्रसादाय तपस्यन् स चित्रकेतुः सप्तरात्रे सप्तरात्रान्ते विद्याधराधिपतितां लब्ध्वा भवन्तं शेषमूर्तिम् ॥ ६ ॥

 त्वं चानन्तरूपे[]ण प्रादुर्भूयात्मतत्त्वमुपदिश्य तिरोहितवानित्याह-

तस्मै मृणालधवलेन सहस्रशीर्णा
 रूपेण बद्धनुतिसिद्धगणावृतेन ।
प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
 दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥ ७ ॥

त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
 वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सङ्गापयन् गुणगणं तव सुन्दरीभिः
 सङ्गातिरेकरहितो ललितं चचार ॥ ८ ॥

 त्वादिति । (ते?) तव गुणगणं हरिचरितं विद्याधरसुन्दरीभिः सङ्गापयन् ॥

अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
 नूनं स रूप्यगिरिमाप्य महत्समाजे ।
निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं
 तं शङ्करं परिहसन्नुमयाभिशेपे ॥ ९ ॥

 अत्यन्तेति । स च श्रीशङ्करं परिहसन् उमयाभिशेपे आसुरीं योनिं याहीति शप्तोऽभूत् । स्वतः सङ्गातिरेकरहितस्यात्यन्तसङ्गविलयाय भवतेश्वरेण प्रणुन्नः प्रेरितोऽसौ नूनमिति तर्कयामि, अन्यथा तस्य देवहेलनायोगात् ॥ ९ ॥

निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
 वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।


  1. 'ति' ख. पाठः.
  2. 'पः प्रा' ख. पाठ:.