भक्त्यात्मतत्त्वकथनैः समरे विचित्रं |
निःसम्भ्रम इति । ततश्चासौ निःसम्भ्रमः शापभयरहितः समर आत्मतत्त्वकथनैः शत्रोरिन्द्रस्यापि भ्रममज्ञानमपास्य तद्वत्रेण हतः ते पदं वैकुण्ठं गतः । चित्रमाश्चर्यमेतत् । अत्र गुरुहेलनेनासुरेभ्यः पराजितैर्देवैः पौरोहित्याय वृतो विश्वरूपः । स तु दितिसुतापत्यतया मातृपक्षपातेन रहसि दैत्येभ्यो हविर्भागं दत्तवान् । इन्द्रन्तु तदालश्यात्य शिरस्यवृश्चत् । ततश्च त्वष्टुहतपुत्रस्याभिचारकुण्डादुत्थितो वृत्रः समरभुवि इन्द्रेण हत इति कथानुसन्धेया ॥ १० ॥
अथ दितेर्घोरसङ्कल्पादिन्द्रस्य मरुद्वधाच्च भगवदनुग्रहाच्छ्रेयः प्राप्तिमाह-
त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि |
त्वदिति । दितिरिन्द्रबधोद्यता काश्यपं प्रसाद्य इन्द्रहणं पुत्रं वृतवती । तस्माद् गभें चाधत्त । तथापि त्वत्सेवनेन काश्यपोपदिष्टपुंसवनव्रतानुष्ठानेनेन्द्रहणं पुत्रं लेभे । अपितु प्रत्युत विपरीतं जातम् । इन्द्रेणाकाले स्वपन्त्या दितेरुदरं प्रविश्य ये सप्त सप्तधा वृणास्तानिन्द्रस्य सुहृदो मरुत एकोनपञ्चाशत्पुत्रानभिलेभे। एवं च दुष्टाशयेऽपि भवन्निषेवा शुभदैव, यथा दितेरिन्द्रस्य च | तत्तादृशोऽनन्यसदृशः ॥ ११ ॥ २२ ॥
इति चित्रकेतूपाख्यानं मरुदुत्पत्तिवर्णनं च त्रयोविंशं दशकं सैकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियाख्यायां
षष्ठस्कन्धपरिच्छेदः ।
आदितः क्ष्लोकसङ्खया २४३.