सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ सप्तमस्कन्धपरिच्छेदः ।

प्राक्कर्मवासनाभेदा ऊतयः सप्तमोदिताः ।
 प्रह्लादपितृदृष्टान्तैर्लक्ष्यन्तेऽथ हरेर्गुणाः ॥

 अथ प्रह्लादचरितवर्णनाय तदुत्पत्तेः पूर्वं तत्पितुर्हिरण्यकशिपोर्भगवद्विद्वेषादिकं प्रस्तौति--

हिरण्याक्षे पोत्रिप्रवरवपुषा देव ! भवता
 हते शोकक्रोधग्लपितधृतिरेतस्य सहजः ।
हिरण्यप्रारम्भः कशिपुरमरारातिसदसि
 प्रतिज्ञामातेने तब किल वधार्थ मु[]ररिपो ! ॥ १ ॥

विधातारं घोरं स खलु तपसित्वा नचिरतः
 पुरः साक्षात्कुर्वन् सुरनरमृगाद्यैर निधनम् ।
वरं लब्ध्वा हप्तो जगदिह भवन्नायकमिदं
 परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ २ ॥

 विधातारमिति । परिक्षुन्दन् चूर्णांकुर्वन् ॥ २ ॥

निहन्तुं त्वां भूयस्तव पद्मवातस्य च रिपो-
 र्वहिर्दृष्टेरन्तदेधिथ हृदये सूक्ष्मवपुषा ।
नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
 भिया यातं मत्वा स खलु जितकाशी निववृते ॥ ३ ॥

 निहन्तुमिति । तव पदं वैकुण्ठमवाप्तस्य प्राप्तस्य रिपोर्हिरण्यकशिपोर्बहिईष्टेर्मांसचक्षुषः सकाशात् त्वं सूक्ष्मवपुषा ज्ञानदृष्टिरहितस्यास्य हृदये अन्तर्दधिथ अन्तर्हितवान् । ततस्त्वां भीतं मत्वोच्चैर्नदन् सिंहनादं कुर्वन् तत्र वैकुण्ठलोके अखिलभुवनान्ते चतुर्दशसु लोकेषु जितकाशी जितंमन्यो निववृते निवृत्तोऽभूत् ॥ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा ।


  1. 'मधुर' क. घ. पाठ:.