श्रीति । साङ्खयं प्रकृतिपुरुषविवेकज्ञानं, योगोऽष्टाङ्गः, ताभ्यां नुतिभिश्च ॥ ९ ॥
इमं जम्बूद्वीपं परितः क्रमात् प्लक्षशाल्मलिकुश क्रौञ्चशाकपुष्करनामानः षड् द्वीपाः । तत्र क्रमादर्केन्दुवह्नयम्बुवायुब्रह्मरूपेण तत्रत्या भगवन्तं भजन्तीत्याह----
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं |
अथ ज्योतिरनीकात्मकस्य भगवत उपासनाप्रकारमाह----
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैक्ष्च |
सर्वैरिति । उड्डुप्रकरैरक्ष्विन्यादिभि: ग्रहै: सूर्यादिभिर्यथाक्रमं पुच्छाद्यवय वेषूपासकैरभिकल्प्यमानैरुपलक्षितस्त्वं शिंशुमारवपुषा अवाक्शिरसः कुण्डलीभूतशरीरस्य शिंशुमारस्य वपुरिव वपुर्यस्य, तद्रूपेण महतां महद्भिः सन्ध्यासु त्रिकालमुपास्यः ॥ ११ ॥
अथ प्रपञ्चस्योद्धारकं शेषमूर्ति स्तौति -
पातालमूलभुवि शेषतनुं भवन्त |
इति जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् एकविंशं दशकं सद्विकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियाख्यायां
पञ्चमस्कन्धपरिच्छेदः ।
आदितः क्ष्लोकसङ्खया २२१.