पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
[स्कन्धः-५
नारायणीये

भक्तैकवत्सलममत्सरहृत्सु भान्तं
 मत्स्याकृतिं भुवननाथ ! भजे भवन्तम् ॥ ५ ॥

 रम्य इति । रम्यकवर्षनाथेन वैवस्वतेन मनुवर्येण सपर्यमाणमाराध्यमानम् ॥ ५ ॥

वर्षे हिरण्मयसमाहृयमौत्तराह-
 मासीनमद्रिधृतिकर्मठकामठाङ्गम् ।
संसेवते पितृगणप्रवरोऽर्यमायं
 तं त्वां भजामि भगवन् ! परचिन्मयात्मन् ! ॥ ६॥

वर्षमिति । औत्तराद्दम् उत्तरदिग्भवम् । अद्रिधृतिकर्मठम् अमृतमथने मन्दराद्रिधारणौयिकं कामठं कौर्ममङ्गं यस्य । परचिन्मयात्मन् ! विशुद्धज्ञानस्वरूप ! ॥ ६ ॥

किञ्चोत्तरेषु कुरुषु प्रियया धरण्या
 संसेवितो महितमन्त्रनुतिमभेदैः ।
दंष्ट्राग्रवृघृष्टधनपृष्ठगरिष्ठवर्ष्मा
 त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ! ॥ ७ ॥

 किञ्चेति । दंष्ट्राग्रेण घृष्टं घनपृष्ठं येन तादृशं गरिष्ठमत्युन्नतं च वर्ष्म स्वरूपं यस्य । विज्ञैर्ज्ञानिमिर्नुता स्तुता यज्ञवराहरूपा मूर्तिर्यस्य ॥ ७ ॥

याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
 संसेवितो हनुमता दृढभक्तिभाजा ।
सीताभिरामपरमाद्भुतरूपशाली
 रामात्मकः परिलसन् परिपाहि विष्णो ! ॥ ८ ॥

 याम्यामिति । याम्यां दिशं भजति इलावृतसमनन्तर[१] देशवर्तिनि ॥ ८ ॥

श्रीनारदेन सह भारतखण्ड मुख्यै-
 स्त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।
आकल्पकालमिह साधुजनाभिरक्षी
 नारायणो नरसखः परिपाहि भूमन् ! ॥ ९ ॥


  1. 'रव' क. पाठः.