पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २१]
१०५
जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् ।

 अथ लोकरक्षायै तत्तद्भूखण्डेषु तत्तद्रूपेण सन्निदधानं भगवन्तं स्तौति ---

मध्योद्भवे भुव इलावृतनाम्नि वर्पे
 गौरीप्रधानवनिताजनमात्रभाजि ।
शर्वेण मन्त्रनुतिभि: समुपास्यमानं
 सङ्कर्षणात्मकमधीश्वर ! संश्रये त्वाम् ॥ १ ॥

 मध्योद्भव इति । भुवो मध्यं जम्बूद्वीपः, तन्मध्यभवे वर्षे खण्डे । गौरीशापेन पुरुपागम्यतयात्र शर्व एक एव पुरुषः । अतो गौरीप्रधानं वनिताजनमात्रमेव भजतीति तथा । शर्वेण मन्त्रैर्नुतिभिश्च ॥ १ ॥

भद्राश्वनामक इलावृतपूर्ववर्षे
 भद्रश्रवोभिर्ऋषिभिः परिणूयमानम् ।
कल्पान्तगूढनिगमोद्धरणप्रवीणं
 ध्यायामि देव! हृयशीर्षतनुं भवन्तम् ॥ २ ॥

व्यायामि दक्षिणगते हरिवर्षवर्षे
 प्रह्लादमुख्यपुरुपैः परिपेव्यमाणम् ।
उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध-
 ज्ञानप्रदं नरहरिं भगवन् ! भवन्तम् ॥ ३ ॥

 ध्यायामीति । एकं शुद्धं निरुपाधिकं ज्ञानं ददातीति तथा ॥ ३ ॥

वर्षे प्रतीचि ललितात्मनि केतुमाले
 लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
 तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ ४ ॥

 वर्ष इति । वृतकामतनुम् अङ्गीकृतकामदेवस्वरूपम् ॥ ४ ॥

रम्येऽप्युदीचि खलु रम्यकनाम्नि वर्षे
 तद्वर्षनाथमनुवर्यसपर्यमाणम् ।


  • 'सपर पूजायामि'ति कण्ड्वादः कर्मणि शानचि सपर्यमाणशब्दः ।