पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
[स्कन्धः - ५
नारायणीये


जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहनात्मरताशयोऽपि ।
अजीजनत् तत्र शतं तनूजान् येषां क्षितीशो भरतोऽग्रजन्मा ॥ ६ ॥

 जितेति । योगशक्त्या जितेनेन्द्रेण दत्ताम् । आत्मरतः आत्मनः श्रीहरेरुपासन एवोत्सुक आशयोऽन्तःकरणं यस्य ॥ ६ ॥

नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥ ७ ॥

 नवेति । भारतवर्षखण्डान् कुशावर्तेलावर्तब्रह्मावर्तमलयकेतुभद्रसेनविदर्भकीकटादीन् । सैका अशीतिरेकसहिता अशीतिः । भूसुरभूयं ब्राह्मणत्वम् ॥ ७ ॥

उक्त्वा सुतेभ्योऽथ सुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ८ ॥

 उक्त्वेति । स्वयमृषभदेवः । सुतेभ्यो भरतादिभ्यः । परमहंसानां वृत्तिं गतो जडोन्मत्तपिशाचवच्चरणमधाः अकरोः ॥ ८ ॥

परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ ९ ॥

 परेति । भवान् परात्मभूतो ब्रह्मभूतः, तथापि परेभ्य उपदेशं कुर्वन् ब्रह्मोपदेशं वा । स्वस्य पारमहंस्यवृत्त्यैव परोपदेशो न मुखत इत्याह - सर्वेति । सर्वनिरस्यमानोऽवधूतः। विकारहीनः शरीराभिमाननिवृत्तेः कर्तृत्वभोक्तृत्वसुखदुःखा दिरहितः । तत्र हेतुः अहीनात्मरसे परमानन्दानुभवे अभिलीनः तदैक्यं प्राप्तो जीवन्मुक्त इति यावत् ॥ ९॥

शयुवतं गोमृगकाकचर्या चिरं चरन्त्राप्य परं स्वरूपम् ।
दवाहताङ्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ! ॥ १० ॥

 शय्विति । शयुव्रतमाजगरं व्रतं गोपृत्कगकाकर्यां च चिरं चरन् शयुवदनुद्यमः सन् गोमृगकाकवच्छुद्ध्यशुद्धिविधिनिषेधादेर्निवृत्तः, केवलं देहस्वभावात् सञ्चरन्नित्यर्थः । परं स्वरूपमाप्य कुटकाचले द्रवाहताङ्गो दवाग्निदग्धशरीरः पपातेत्यर्थः ॥ १० ॥

इति ऋषभयोगिचरितवर्णनं विंशंदशकम् ।