पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ पञ्चमस्कन्धपरिच्छेदः ।


लोकानां प्राक् स्वसृष्टानां मर्यादापालनात्मिका ।
लीला स्थानसमाख्याता हरे: प्रस्तूयतेऽधुना ॥

 इदानीं पञ्चमस्कन्धाश्रयणेन भगवतो मर्यादापालनात्मिकां लीलामभिदधानः प्रथममृषभदेवावतारकथनाय तत्पूर्वपरम्परामाह ----

प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः ।
त्वां दृष्ट्वानिष्टदमिष्टिमध्ये तवैव तुष्टयै कृतयज्ञकर्मा ॥ १ ॥

 प्रियव्रतस्येति । स्वायम्भुवस्य मनोर्ज्येष्ठपुत्रः प्रियव्रतः । तस्य बर्हिष्मत्यां दश पुत्रा अभवन् । तेषु ज्येष्ठ आग्नीध्रो नाम राजा स्वसमानशीलतया पितुः प्रियः । तस्मात् पूर्वचित्तिनामाप्सरसि नाभिर्नाम राजा उदित उत्पन्नः । इष्टिमध्ये यज्ञमध्ये ॥ १ ॥

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा वर्हिषि विश्वमूर्ते ! ॥ २ ॥

 अभिष्टुत इति । स्वतुल्यमश्विरतुल्यम् | बर्हिषि अग्नौ तिरोधाः ॥ २ ॥

नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूर्ऋषभाभिधानः ।
अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ३ ॥

 नाभीति । मेरुदेव्यां मेरुसुतायाम् । अलोकसामान्यैरमानुषैर्गुणैः प्रभावैश्च प्रभावित उत्पादितः अशेषजनप्रमोदो येन ॥ ३ ॥

त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ४ ॥

 त्वयीति । आनन्दपदं निरतिशयसुखस्थानं ते पदं वैकुण्ठम् ॥ ४ ॥

इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्मजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधाः सुवर्षम् ॥ ५ ॥