प्रचेतसामिति । वरानदा इत्युक्तं, तदेवाह भवद्विचिन्तेति । भवतां प्रचेतसां
विचिन्तानुस्मरणं शिवाय मङ्गलाय, रुद्रनुतिः रुद्रेण गीता मम स्तुतिश्च ॥ ७ ॥
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । |
अवाप्येति । किञ्च महीरुहां वृक्षाणां तनयां पुत्रीं, प्रम्लोचानाम्नोऽप्सरसः पुत्री तत्परित्यक्ता वृक्षैः पुत्रीत्वेन परिगृहीतेति द्रष्टव्यम् । तां कान्तामवाप्य युष्माभिर्दशभिः सहैवोद्वाह्य तया दशलक्षवत्सराणां समाहारो दशलक्षवत्सरी तावत्कालं रमध्वं भोगाननुभवत । तस्यां दक्षो नाम सुतश्चास्तु । तत्क्षणाद् दशलक्षवत्सरानन्तरमेव मां प्रयास्यथ मुक्ता भविष्यथ इति मुदैव तत्प्रार्थनां विना त्वं तान् न्यगद उक्तवान् ॥ ८ ॥
ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो द्रुहिणेन वारिताः । |
ततश्चेति । ततो भगवद्गमनानन्तरं सलिलादुत्थितास्ते भूतलं रोद्धुं शीलं येषामिति भूतलरोधिनस्तान् तरून् क्रुषा कोषोद्भताभ्यामनिलानलाभ्यां दहन्तो द्रुहिणेन ब्रह्मणा वारिताः । ततश्च भीतैर्ब्रह्मणोपदिष्टैर्दुमैर्दत्तां तां कमललोचनाम् ॥ ९ ॥
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । |
अवाप्येति । नारदाल्लब्धया घिया ज्ञानेनानन्दरूपं पदं, पद्यते प्राप्यत इति पदं ब्रह्म अवापुः । तथाविधस्तादृशभक्तवात्सल्ययुक्तः ॥ १० ॥ ४१ ॥
इति दक्षोत्पत्तिप्रसङ्गवर्णनं दक्षोत्पत्तिवर्णनं च एकोनविंशं दशकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियाख्यायां
चतुर्थस्कन्धपरिच्छेदः ।
आदितः क्ष्लोकसङ्खया १९९.