सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १९]
१०१
दक्षोत्पत्तिप्रसङ्गवर्णनम् ।

प्राचीनाग्नैः कुशैरास्तृतमिदं भूमण्डलमिति प्राचीनबर्हिरिति नामास्याभृत् । स च शतद्रुतौ भार्यायां प्रचेतसो नामेति प्रचेतस इति तुल्यनाम्नः सुतानजीजनत् । ते च सर्वे सुचेतसः । अत एव त्वत्करुणायाः प्राचीनबर्हिर्विषयाया अङ्करानिवेति ॥ १ ॥

पितुः सिसृक्षानिरतस्य शासनाद् भवत्तपस्यानिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ २ ॥

 पितुरिति । सिसृक्षानिरतस्य प्रजासर्गकामस्य प्रजाः सृजतेति शासनात् ते प्रचेतसो दशापि भवत्तपस्यायां निरताः ॥ २ ॥

 अथ भगवान् रुद्रस्तत्रागत्य तेषां भगवत्स्तोत्रमुपदिदेशेत्याह---

 तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
 प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्तव स्तवम् ॥ ३ ॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान् वभूव कालो ध्रुववन्न शीघ्रता ॥ ४ ॥

 स्तवमिति । भवानेव सुखं भवत्सुखं ब्रह्मानन्दः तस्यास्वादने रस आग्रहः ॥

तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ ५ ॥


तपोभिरिति । स यज्ञहिंसानिरतो वेनः पृथोर्जनकः पावितः दुरितानेवृत्तिद्वारा नरकादुत्तारितः । तेषां पिता प्राचीनबर्हिरपि गृहयातेन नारदेन प्रदर्शित

उपदिष्ट आत्मा श्रीहरिर्यस्य, 'आप्तत्वाच्च प्रमातृत्वादात्मा हि परमो हरिरि'त्युक्तत्वात् । भवदात्मतां सायुज्यम् ॥ ५ ॥

 अथ भक्तवात्सल्येनैव तेषां त्वं प्रादुरभूरित्याह---

कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतंगेन्द्रवाहनः ।
विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ ६ ॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद् वरानदाः ।
भवद्विचिन्तापि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ ७ ॥