लोकानां प्राक् स्वसृष्टानां मर्यादापालनात्मिका । |
इदानीं पञ्चमस्कन्धाश्रयणेन भगवतो मर्यादापालनात्मिकां लीलामभिदधानः प्रथममृषभदेवावतारकथनाय तत्पूर्वपरम्परामाह ----
प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । |
प्रियव्रतस्येति । स्वायम्भुवस्य मनोर्ज्येष्ठपुत्रः प्रियव्रतः । तस्य बर्हिष्मत्यां दश पुत्रा अभवन् । तेषु ज्येष्ठ आग्नीध्रो नाम राजा स्वसमानशीलतया पितुः प्रियः । तस्मात् पूर्वचित्तिनामाप्सरसि नाभिर्नाम राजा उदित उत्पन्नः । इष्टिमध्ये यज्ञमध्ये ॥ १ ॥
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । |
अभिष्टुत इति । स्वतुल्यमश्विरतुल्यम् | बर्हिषि अग्नौ तिरोधाः ॥ २ ॥
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूर्ऋषभाभिधानः । |
नाभीति । मेरुदेव्यां मेरुसुतायाम् । अलोकसामान्यैरमानुषैर्गुणैः प्रभावैश्च प्रभावित उत्पादितः अशेषजनप्रमोदो येन ॥ ३ ॥
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या । |
त्वयीति । आनन्दपदं निरतिशयसुखस्थानं ते पदं वैकुण्ठम् ॥ ४ ॥
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्मजनाभवर्षे । |