पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १८]
९७
पृथुचरितवर्णनम् ।

 अथ पृथुचरितकथनाय वेनकथां प्रस्तौति -

जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
 रङ्गस्य व्यजनि सुतः स वेननामा ।
[१]यद्दोषव्यथितमतिः स राजवर्य-
 स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १ ॥

 जातस्येति । ध्रुवकुल एव जातस्याङ्गनाम्नो राज्ञः सुनीथायां वेननामा सुतोऽजनि, यस्य वेनस्य दोषेणाधार्मिकत्वेन व्यथितो निर्विण्णः सोऽङ्गनामा राजवर्यो वनं गतः । निशीथे जनैरलक्षितो गत इति द्रष्टव्यम् ॥ १ ॥

 वेनस्याधार्मिकत्वं प्रपञ्चयति -----

[२]पापोऽपि क्षितितलपालनाय वेनः
 पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजवलमेव सम्पशंसन्
 भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २ ॥

 पाप इति । उपनिहितः सिंहासने संस्थाप्याभिषिक्तः ॥ २ ॥

 अथ सज्जननिन्दयेश्वरनिन्दया चासौ मुनिशापाग्निनिर्दग्धोऽभूदित्याह---

सम्प्राप्ते हितकथनाय तापसौघे
 मत्तोऽन्यो भुवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
 शापाग्नौ शलभदशामनायि वेनः ॥ ३ ॥

 अथ पृथ्ववतारमाह-

तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै-
 स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताधे परिमथितादथोरुदण्डाद्
 दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४ ॥


  1. 'त' मूलपाठ:.
  2. 'बालोऽपि' क. पाठः.