पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
स्कन्धः ४
नारायणीये


रेमे चिरं भवदनुग्रहपूर्णकाम-
 स्ताते गते च वनमाहतराज्यभारः ॥ ९ ॥

 पुनरुत्तमचरितमाह ----

यक्षेण देव ! निहते पुनरुत्तमेऽस्मिन्
 यक्षैः स युद्धनिरतो विरतो मनुक्त्या ।
शान्त्या प्रसन्नहृदयाद् धनदादुपेतात्
 त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ १० ॥

 यक्षेणेति । उत्तमे मृगया[१]यां केनचिद् यक्षेण युद्धे निहतेऽनन्तरं स ध्रुवो भ्रातृवधामर्षेण यक्षैर्युद्धनिरतस्तान् निहतवान्, मनोः पितामहस्योक्त्या विरतश्चाभूत् । अय ध्रुवस्य शान्त्या युद्धनिवृत्त्या ध्रुवसमीपमागताद् धनदाद् राजराजाद् वरं वृणीष्वेत्युक्तो ध्रुवस्त्वद्भक्तिमेवावृणोत् । अत्र हेतुर्महात्मेति ॥ १० ॥

 अथ ध्रुवस्य स्वादप्राप्तिमाह -

अन्ते भवत्पुरुषनीतविमानयातो
 मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं
 वातालयाधिप ! निरुन्धि ममामयौघान् ॥ ११ ॥

 अन्त इति । अन्ते षड्विंशद्वर्षसहस्रं राज्यमनुभूय तदन्ते भवत्पुरुषाभ्यां सुनन्दनन्दाभ्यां नीतेन विमानेन यातो गतः सन् मात्रा सुनीत्या समं सह मुदितः सन्तुष्ट अयमास्ते इत्यनेनाधुनापि तस्य विद्यमानत्वं नक्षत्ररूपेण दृश्यमानत्वं च सूचितम् ॥ ११ ॥

इति ध्रुवचरितवर्णनं सप्तदशं दशकं सैकम् ।



  1. 'यां याते के' क. पाठः.