पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम्-१७]
९५
ध्रुवचरितवर्णनम्।

 तावादिति । त्वद्रूपचिद्रसे त्वदाकारे चतुर्भुजत्वादिविशिष्टतया घनीभूय स्थिते चिद्रसे परब्रह्मणि निलीना तदाकाराकारिता मतिर्यस्य तस्येत्यर्थः । यद्वा तादृश्या मतेस्तस्य पुरस्तादाविर्बभूविथेति । अनेन च त्वद्रूपं हृदि सहसा तिरोहितमुपलक्ष्योन्मीलितनयनस्तदवस्थं बाहिःस्थितं भगवद्रूपमसौ ददर्शेति व्यज्यते ॥ ६ ॥

त्वदर्शनप्रमदभारतरङ्गितं तं
 दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूमाणमवगम्य कपोलदेशे
 संस्पृष्टवानसि दरेण तथादरेण ॥ ७ ॥

 त्वदिति । त्वद्दर्शनप्रमदभारे तरङ्गितम् इतिकर्तव्यतामूढतया किञ्चिदिव सम्भ्रान्तं पुनश्च ते रूपरसायने रूपामृते दृग्भ्यां निमग्नमवगाढनयनयुग्ममिवस्थितं[१] तं तुष्टूषमाणं स्तोतुमिच्छन्तं तदसमर्थं चावगम्य तत्सामर्थ्यसम्पादनाय दरेण शब्दब्रह्मात्मकेन पाञ्चजन्याख्येन शङ्खेन कपोलदेशे संस्पृष्टवानसि । आदरेण लालनपूर्वकम् ॥ ७ ॥

तावद् विबोधविमलं प्रणुवन्तमेन-
 माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
 सर्वोत्तरं ध्रुव ! पदं विनिवृत्तिहीनम् ॥ ८ ॥

 तावदिति । दरेण कपोले स्पृष्टमात्र एव विबोधेन ज्ञानविज्ञानाभ्यां वगतं मलमज्ञानं यस्मात् स विमलः, तम् । यद्वा विमलं यथा भवति तथेति स्तवनक्रियाविशेषणम् । अनेन च स्तुतेर्निर्गुणब्रह्मनिष्ठत्वं व्यज्यते । तदीयं ध्रुवसम्बन्धिनं भावमभिप्रायमवगम्य आभाषथा उक्तवानसि । सर्वोत्तरं सप्तर्षिलोकादप्युपरिष्टात् स्थितं पदं स्थानं हे ध्रुव ! विनिवृत्तिहीनं पुनरावृत्तिरहितम् ॥ ८ ॥

 ध्रुवे राज्यभारं न्यस्य पिता वनं गतवानित्याह-

इत्युचुषि त्वयि गते नृपनन्दनोऽसा-
 वानन्दिताखिलजनो नगरीमुपेतः ।


  1. 'तं तु' ख. पाठ:.