आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा |
आकर्येति । आकर्ण्य मातुर्वचनमिति शेषः । स ध्रुवः भवदर्चने तपश्चरणे निश्चित आत्मा मनो यस्य सः मानी । पञ्चवर्ष इति । पञ्चवा अपि जिगमिषुं दृष्ट्वा विषण्णां स्खमातरं कथञ्चिदनुज्ञाप्यान्याननवलोकयन्नेकाकी स्वयं नगरान्निर्जगामेत्यर्थः । स पथि दृष्टेन नारदेन निवेदित उपदिष्टो मन्त्रमार्गो यस्य सः त्वाम् आरराध प्रसादयामास | मधुकाननान्ते मधुवनमिति प्रसिद्धे देशे ॥ ४ ॥
ताते विषण्णहृदये नगरीं गतेन |
तात इति । ताते पितर्युत्तानपादे विषण्णहृदये आत्मदोषेण बालकस्य नगरान्निर्गमनमुपश्रुत्य तस्यापायशङ्कया सोत्कण्ठहृदये ध्रुवस्य तपश्चरणे[१]तिकर्तव्यतोपदेशानन्तरमेवास्य पितृदर्शनाय नगरीं गतेन श्रीनारदेन परिसान्त्विता तस्य भाविश्रेयःप्राप्तिकथनादिना मन्दीकृतशोकावेगा[२] चित्तवृत्तिर्मनो यस्य स तथा तस्मिन् एवंस्थिते सति बालो ध्रुवस्त्वदर्पितमनाः त्वयीश्वरे समाहितचित्तः सन् क्रमबर्घितेन फलपर्णजलादिक्रमेण शनैः परिहृतेनाहारेणाभिव्यक्तक्रमोत्कर्षेण कठोरणोग्रेण तपसा पञ्च मासान् निन्ये ॥ ५ ॥
ततश्च जातशङ्खैर्देवरैर्थितः श्रीहरिस्तस्य पुरतः प्रादुर्बभूवेत्याह -
तावत् तपोबलनिरुच्छ्वसिते दिगन्ते |