व्रतावरजः, तस्य द्वे जाये सुरुचिः सुनीतिश्च । तयोः सुरुचिर्नाम जाया नितरामभीष्टा बभूव । सुनीतिरित्यन्या जाया सा भर्तुरनादृता नात्यभीष्टा अत एवागतिरशरणा त्वामीश्वरमेव नित्यं शरणं गताभूत् निजदौर्भाग्य हेतुदुरितशमनायेश्वरमुपासांचक्र इत्यर्थः ॥ १ ॥
अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं |
अङ्क इति । कदाचित् सुनीतिसुतो ध्रुवः पितुः सिंहासनस्थस्याङ्के उत्तमास्व्यं तं सुरुचिपुत्रत्वेनातिलालितं दृष्ट्वा स्वयमधिरोक्ष्यन् आरोढुमारब्धः सन् सुतरां शिशुरपि सुरुच्या आचिक्षिपे दुर्वाग्मिरधिक्षिप्तोऽभूत् । भवद्विमुखैरसूया दुस्सन्त्यजा त्यक्तुमशक्या खल्लु । अनेन सुरुच्या ईश्वरविमुखतया पुत्रनाशादि, सुनीतेश्चेश्वरानुग्रहेण पुत्रेण सह ध्रुवपदप्राप्त्यादि व्यज्यते ॥ २ ॥
त्वन्मोहिते पितरि पश्यति दारवश्ये |
त्वदिति । त्वन्मोहिते ईश्वरशक्त्या भवितव्यतया मूढचित्ते । दारवश्य इत्यनेन स्वाङ्कमारुरुक्षन्तं स्वपुत्रं पश्यन्नपि सुरुचिभयेन नारोपयदिति व्यज्यते । दूरमतिशयेन दुरुक्तिभिर्दुर्वाग्मिर्निहतो विद्धः स ध्रुवः निजाम्बां स्वमातरं सुनीतिमेव गतः प्राप्तवान् । सापि स्वस्य कर्मगतेर्दुष्कर्मफलस्य दौर्भाग्यस्य सन्तरणाय निवृत्तये । यद्वा पुंसां सर्वशरीरिणामपि स्वकर्मगतेः संसारार्णवस्य सन्तरणमनायासेनातिक्रमः तस्मै त्वत्पादमेव शरणं नान्यदिति शशंस । शिशव इत्यनेन पुत्रमङ्कमारोप्य मा रोदीरित्याद्यनुनयपूर्वकमुक्तवतीति व्यज्यते ॥ ३ ॥
- ↑ 'शा' घ. पाठः.