सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
[स्कन्धः - ४
नारायणीये

 दक्ष इति । धातुर्ब्रह्मण अतिलालनया प्रजापतीनामाधिपत्ये संस्थाप्याभिषेकादिरूपया रजसा तत्कार्येण कामक्रोधलोभादिना अन्धो विवेकशून्यः अत एव ब्रह्मणापि नात्यादृतः उपेक्षितः अशान्तिरविद्यमाना शान्तिः क्षमा यस्य स अशान्तिरक्षम आसीत् । येनाशान्तित्वेन स दक्षो भवत्तनुं त्वदंशभूतमेव शर्वं व्यरुन्ध द्वेष्टि स्म, यज्ञे दक्षाध्वरे वैरपिशुने दक्षशर्ववैरद्योतके स्वसुतां शर्वपत्नीं सतीं व्यमानीद् अवमानितवान् ॥ ९ ॥

क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
 देवप्रसादितहरादथ लब्धजीवः ।
त्वत्पूरितक्रतुवरः पुनराप शान्ति
 स त्वं प्रशान्तिकर ! पाहि मरुत्पुरेश ! ॥ १० ॥

 क्रुद्धेशेति । स्वप्रियावमानेन क्रुद्धेनेशेन मर्दितश्चूर्णीकृतो मखस्तदुपकरणयज्ञपात्रयूपशालादिर्यस्य सः स्वयं च दक्षः कृत्तशीर्षोऽभवत् । अथ देवैः प्रसादिताद्धराद् लब्धजीव अजमुखश्चाभूत् । ततस्त्वया पूरितः सम्यक् समापितः ऋतुवरो यस्य स दक्षः पुनः शान्ति स्वां प्रकृतिमाप । हे प्रशान्तिकर ! एवंप्रभावः स त्वं पाहि ॥ १० ॥

इति नरनारायणचरितवर्णनं दक्षयागवर्णनं च

षोडशं दशकम् ।

 एवं मनुपुत्रीणां परम्परां वर्णयित्वा तत्पुत्रपरम्परां वर्णयिष्यन् प्रथमं ध्रुवचरितार्थमुत्तानपादचरितमाह

उत्तानपादनृपतेर्मनुनन्दनस्य
 जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा
 त्वामेव नित्यमगतिः शरणं गताभूत् ॥ १ ॥

 उत्तानेति । उत्तानपादाख्यस्य नृपतेर्मनोः स्वायम्भुवस्य नन्दनः प्रिय-</poem>