पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २६ ]
९१
दक्षयागवर्णनम् ।

 भीत्येति । हे अङ्गजवसन्तसुराङ्गनाः ! वो युष्माकं भीत्या अलं भयं मा कुरुत । इहास्मत्सकाशमेत्य मन्मानसं तु जुषध्वं मच्चित्तमनुवर्तध्वम् । अथवा मम मानसं मनसा सङ्कल्पितं सत्कारं जुषध्वं प्रीत्या निर्भयाः परिगृह्णीध्वम् । यद्वा मम मनसा सृज्यमानं वः स्वर्गदुर्लभं किञ्चिद्वस्तु स्त्ररित्नाख्यं मया दीयमानं जुषध्वमाददीध्वम् । मन्माननमिति पाठे मत्कर्तृकां पूजामित्यर्थः । इति ब्रुवाणं त्वां परितः किञ्चित् समीपं गत्वा परिवार्य स्तुवतामेषाम् अथ वचनानन्तरं स्वपरिचारिका आत्मशुश्रूषां कुर्वतीः कातराक्षीः सुन्दरीः प्रादर्शयः योगबलेन सृष्ट्वा प्रदर्शितवान् असि ॥ ६ ॥

सम्मोहनाय मिलिता मदनादयस्ते
 त्वद्दासिकापरिमलैः किल मोहमापुः ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
 स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ ७ ॥

 सम्मोहनायेति । त्वां मोहयितुं सहिताः संहत्यागता मदनादयो मदनमलयमारुतवसन्तसुराङ्गनाः । उर्वशीं त्वत्सृष्टास्वन्यतमाम् ॥ ७ ॥

दृष्ट्वोर्वशीं तव कथां च निशम्य शक्रः
 पर्याकुलोऽजनि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरोऽवतार-
 स्त्वत्तोऽधिको वरद ! कृष्णतनुस्त्वमेव ॥ ८ ॥

 दृष्वेति । प्रशान्तः सौम्यः । त्वत्तः श्रीनारायणावताराद् अधिक: प्रशान्तत्वेन विचित्रकर्मतया रमणीयतरत्वेन चोत्कृष्टः । कृष्णतनुः श्रीकृष्णात्मा ॥ ८ ॥

 एवं दक्षपुत्रीषु धर्मपत्न्या मूर्ते: कथामुक्त्वा भवपत्न्याः सत्याः कथामाह-

दक्षस्तु धातुरतिलालनया रजोन्धो
 नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यरुन्ध स भवत्तनुमेव शर्वे
 यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥ ९ ॥


 + विमानितवान् । 'मान पूजायाम्' इत्यत आधृषीयाद् णिजभाषे लुङि रूपम् ।