तन्नाशादिति । तस्य वेनस्य नाशादराजके खलजनेभ्यो दस्युभ्यो भीरुकैः: । तन्मात्रा सुनीथया योगवलेन रक्षिते तदङ्गे वेनशरीरे परिमथितादूरुदण्डात् त्यक्ताघ इति । अयमर्थः- - ऋषिभिर्मथितादूरोर्निषादो नाम कश्चित् पुरुषो जातः । स च वेनकल्मषांशत्वात् कृष्णवर्णः । तद्वंश्या नैषादा गिरिकानेनचराश्चाभूवन्निति । अथ दोर्दण्डे परिमथिते तस्मात् त्वं पृथुवपुः सन् आविरासीः अवतीर्णवान् ॥ ४ ॥
विख्यातः पृथुरिति तापसोपदिष्टैः |
विख्यात इति । पृथुरिति विख्यातस्त्वं तापसोपदिष्टै: “अयं साक्षाद्धरेरंशः” (श्रीभा. स्क. ४. अ. १५. क्ष्लो. ६) इत्यादितापसोपदेशेन तत्प्रभावज्ञैः सूतमागधवन्दिभिः परिणुतानि स्तुतानि भाविभूरिवीर्याणि महीदोहनैकोनशतवाजिमेधादीनि यस्य स तथा । वेनार्त्या वेनकृतया आर्त्या पीडया कबलिता ग्रस्ता सम्पदोषधिर्यया तां कबलितसम्पदम् अत एवाक्रान्तां क्रुद्धेन त्वया आत्तशरासनेन धावयता नतोन्नतां कृतां निजधनुष्कोट्या समामकार्षीः, गिरिकूटानि चूर्णयन् पुरग्रामादिविभागेन प्रायः समतलां कृतवानिति भावः ॥ ५ ॥
अथ प्रजाः पृथुशासनाद् गोरूपिणीं महीं स्वस्वाभिमतान्नमयं क्षीरं दुदुहुरित्याह---
भूयस्तां निजकुलमुख्यवत्सयुक्त्तै- |
भूय इति । तां महीं निजकुलमुख्यवत्सयुक्तैरिति । अयमर्थः --- पृथुः स्वकुलमुख्यं मनुं वत्सं कृत्वा पाणिपात्रे ओषधीरघुक्षत् । ऋषयो बृहस्पतिं वत्सं कृत्वेन्द्रियेषु पात्रेषु महीं छन्दोमयं क्षीरं दुदुहुः । देवा इन्द्रं वत्सं कृत्वा