पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १८]
९९
पृथुचरितवर्णनम् ।

स्वर्णपात्रे सोमं दुदुहुः । असुराणां प्रह्लादो वत्सः अयः पात्रं सुरा पयः, गन्धर्वा मधु। पितरः कव्यम् । एवं द्रष्टव्यम् । सुरभितनूं गोरूपिणीमदूदुहः, त्वच्छासनाद् दुदुहुरिति तात्पर्यम् ॥ ६ ॥

आत्मानं यजति मखैस्त्वयि त्रिधाम-
 न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालु: शतमख एत्य नीचवेषो
 हृत्वाश्वं तव तनयात् पराजितोऽभूत् ॥ ७ ॥

 आत्मानमिति । हे त्रिधामन् ! विष्णो ! त्वयि पृथौ मखैरश्वमेघैरात्मानं सर्वदेवमयं विष्णुं यजति सति शततमे शतसंख्याया अन्तिमे वाजिमेधयागे आरब्धे शतमखः इह जगत्यहमेक एव शतक्रतुरित्यभिमानीन्द्रः नीचवेषः पाषण्डवेषः सन्नेत्याक्ष्वं हृत्वा तव तनयात् पृथुपुत्रादनेनैव कर्मणा विजिताश्वसंज्ञात् ॥ ७ ॥

देवेन्द्रं मुहुरि[१]ति वाजिनं हरन्तं  वह्नौ तं मुनिवरमण्डले जुहूपौ । रुन्धाने कमलभवे क्रतोः समाप्तौ  साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८ ॥

 "देवेन्द्रमिति । अनेन प्रकारेण नग्नरक्तपटजटाभस्मादिपाषण्डवेषेण मुहुः पुनः पुनः वाजिनमश्वं हरन्तं मुष्णन्तं तं देवेन्द्रं मुनिवराणां मण्डले समूहे वह्नौ दक्षिणाग्नौ जुहूषौ वधार्थमाभिचारविधानेन होतुमिच्छति सति कमलभवे ब्रह्मणि रुन्धाने 'तवैकोनशतक्रतुत्वेनालं, शतक्रतुश्च प्रीतो भवतु, हे पृथो! तव क्रतुभिरलम्' इत्यागत्य प्रतिषेधं कुर्वति सति क्रतोः समाप्तौ जातायां त्वं पृथुः मधुरिपुं विष्णुं साक्षाच्चाक्षुषतया ऐक्षथा दृष्टवान् । स्वयं स्वमित्यनेन पृथोरवतारत्वमुक्तम् ॥ ८ ॥

तद्दत्तं वरमुपलभ्य भक्तिमेकां
 गङ्गान्ते विहितपदः कदापि देव ! ।


  1. 'रपि वा' ख. पाठः.