पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


भाष्योपोद्घातः

काम्यप्रतिषिद्धयोरनारम्भात् , आरब्धस्य चोपभोगक्षयात्, नित्यानुष्ठानेन प्रत्यवायाभावात्, अयनत एव स्वात्मन्यवस्थानं मोक्षः मीमांसकाः-केवलक अथवा निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्यायाः कर्महे- र्मणां मोक्षसाधनत्वम् तुत्वात्, कर्मभ्य एव मोक्षः--इति चेत्, न, कर्मानेकत्वात् । अनेकानि ह्यारब्धफलान्यनारब्धफलानि चानेकजनमाम्त रकृतानि विरुद्धफलानि कर्माणि संभवन्ति इत्यत तत्खण्डनम् स्तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगक्षयासंभवात्,शेष कर्मनिमित्तशरीरारम्भोषपतिः । कर्मशेषसद्भावलिद्धिश्च, “ तद्य इह रमणी- ततः शेषेणै ” इत्यादिश्रुतिस्मृतिशतेश्यः । इष्टानिष्टफलाना मनारब्धानां क्षयार्थानि नित्यानि--इति चेलप्रत्यवायश्रवणात्; अकरणे प्रत्यवायशब्दो ह्यनिष्टविषयः नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूप स्याऽऽगामिनः परिहारार्थानि नित्यानीत्यभ्युपगमात् नानारब्धफलकमेक्षया र्थानि । यदि नामानारब्धफलकर्मक्षयार्थानि नित्यानि कर्माणि, तथाऽप्यशुभ मेव क्षपयेयुः न शुभम् , विरोधाभावात् । नहि , इष्टफलस्य कर्मणः शुद्धिरू पत्वात्, नेत्यवराध उपपद्यते, शुद्धयशुद्धयहं विरोधो युक्तः ।


आप्तकामताऽपि निरङ्कशा;-–आत्मैव वस्तु, नान्यत्ततोऽस्तीत्येवंरूपा -आत्मकामत्वे सति, भवति; कामयितव्यभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिकं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्मावियामूलत्वात्, आत्मविचैव तन्निवृत्तिहेतुरित्यर्थः । भव त्वात्मविवा कामविरोधिनी, कर्महेतुपरिहाराय ब्रह्मविया प्रस्तूयते-इति कथञ्चकं ? तत्राऽऽह--आत्मेति। आनन्दमयं परमात्मानमादाय धृतिरुदाहृता। एवं तावत्कर्मकाण्डेनागतार्थत्वात् ,कर्मभ्योऽसंभाव्यमाननिश्श्रेयसप्रयोजनत्वच, उपनिषदो व्याख्यारम्भं संभाव्यपुनरनारम्भवादिनोऽभिप्रायमुद्भावयति-काम्यप्रतिषिद्धयोरिति । आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसम्, शरीरानुत्पादश्च हेत्वभावादेव से त्स्यति, किं ज्ञानार्थोपनिषदारम्भेण ?---इत्यर्थः । मतान्तरमाह--अथवेति । यदेव स्वर्ग साधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं, निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासं भवान् , सति शरीरे क्लेशस्यावश्यंभावादित्यर्थः । ऐकभविकपक्षमायमतं प्रत्याख्याति-


(१) छां. उ. ५-१०-७ (२) अनेन « वर्ण आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते”-इति गौ.ध.सू.२.११२९ एव ग्रहीतव्यम् न आप ध. पू. २-२-३ < ततः परिवृत्तौ कर्मफलशेषेण जातिं, रूपं, वर्ण, मेधां, प्रशां द्रव्याणि, कर्मानुष्ठानम् इति प्रतिपद्यते । तचक्रवदुभयोर्लकयोः सुख एव वर्तते ’-इति ।