सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भाष्योपोद्घातः

मीमांसकाः-केवलकर्मणां मोक्षसाधनत्वम् काम्यप्रतिषिद्धयोरनारम्भात्, आरब्धस्य चोपभोगक्षयात्, नित्यानुष्ठानेन प्रत्यवायाभावात्, अयत्नत एव स्वात्मन्यवस्थानं मोक्षः; अथवा निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्यायाः कर्महेतुत्वात्, कर्मभ्य एव मोक्षः--इति चेत्, तत्खण्डनम् न, कर्मानेकत्वात् । अनेकानि ह्यारब्धफलान्यनारब्धफलानि चानेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि संभवन्ति - इत्यतस्तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगक्षयासंभवात्,शेषकर्मनिमित्तशरीरारम्भोषपतिः । कर्मशेषसद्भासिद्धिश्च, "तद्य इह रमणीयचरणा:"[]"ततः शेषेण"[] इत्यादिश्रुतिस्मृतिशतेभ्य: । इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानि--इति चेन्न,अकरणे प्रत्यवायश्रवणात्; प्रत्यवायशब्दो ह्यनिष्टविषयः नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्याऽऽगामिनः परिहारार्थानि नित्यानीत्यभ्युपगमात् नानारब्धफलकर्मक्षयार्थानि । यदि नामानारब्धफलकर्मक्षयार्थानि नित्यानि कर्माणि, तथाऽप्यशुभमेव क्षपयेयुः न शुभम् , विरोधाभावात् । नहि , इष्टफलस्य कर्मणः शुद्धिरूपत्वात्,नित्यैर्विरोध उपपद्यते, शुद्ध्यशुद्ध्योर्हि विरोधो युक्तः ।


आप्तकामताऽपि निरङ्कशा;-–आत्मैव वस्तु, नान्यत्ततोऽस्तीत्येवंरूपा -आत्मकामत्वे सति, भवति; कामयितव्यभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिक्तम् विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वात्, आत्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः । भव त्वात्मविवा कामविरोधिनी, कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते-इति कथमुक्तम्? तत्राऽऽह--आत्मेति। आनन्दमयं परमात्मानमादाय श्रुतिरुदाहृता।   एवं तावत्कर्मकाण्डेनागतार्थत्वात् ,कर्मभ्योऽसंभाव्यमाननिश्श्रेयसप्रयोजनत्वच, उपनिषदो व्याख्यारम्भं संभाव्य,पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति-काम्यप्रतिषिद्धयोरिति । आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसम्, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति, किं ज्ञानार्थोपनिषदारम्भेण?---इत्यर्थः । मतान्तरमाह--अथवेति । यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं, निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासंभवात् , सति शरीरे क्लेशस्यावश्यंभावादित्यर्थः । ऐकभविकपक्षमायमतं प्रत्याख्याति-


(१) छां. उ. ५-१०-७ (२) अनेन "वर्ण आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते”-इति गौ.ध.सू.२.११-२९ एव ग्रहीतव्यम् न आप ध. सू. २-२-३ "ततः परिवृत्तौ कर्मफलशेषेण जातिं, रूपं, वर्णम्, मेधां, प्रशां द्रव्याणि, कर्मानुष्ठानम् इति प्रतिपद्यते । तच्चक्रवदुभयोर्लकयोः सुख एव वर्तते"-इति ।

  1. (१) छां.उ. ५-१०-७
  2. (२) अनेन "वर्ण आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते”-इति गौ.ध.सू.२.११-२९ एव ग्रहीतव्यम् न आप ध. सू. २-२-३ "ततः परिवृत्तौ कर्मफलशेषेण जातिं, रूपं, वर्णम्, मेधां, प्रशां द्रव्याणि, कर्मानुष्ठानम् इति प्रतिपद्यते । तच्चक्रवदुभयोर्लकयोः सुख एव वर्तते"-इति ।