सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तैत्तिरीयोपनिषत्

कर्मकाण्डार्थः नित्यान्यधिगतानि कर्माण्युपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां, पूर्वस्मिन् ग्रन्थे । 'ब्रह्मविद्या'उपनिषदर्थः इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते । कर्महेतुः कामः स्यात्प्रवर्तकत्वात् । आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानतवृत्त्यनुपपतिः। आत्मकामत्वे चाऽऽप्तकामता । आत्मा []हि ब्रह्म । तद्विदो हि परप्राप्तिम् वक्ष्यति[]। अतोऽविद्यानिवृत्तौ स्वात्मन्यवस्थानं परम्प्राप्तिः, “अभयं प्रतिष्ठां विन्दते”, "एतमानन्दमयमात्मानमुपसंक्रामति"[] इत्यादिश्रुतेः।


षपदार्थस्मरणासंभवात् , उपनिषद्गतनिःशेषपदार्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते, तेषामुपकारायेत्यर्थ:॥ ३ ॥

  कर्मविचारेणैवोपनिषदो गतार्थत्वाद, उपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव संभवात्, पृथग्व्याख्यारम्भो न युक्तः--इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह--नित्यानीति । "अथातो धर्मजिज्ञासा [] " इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वात्, नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि सञ्चितदुरितक्षयार्थानि,"धर्मेण पापमपनुदति"[] इति श्रुतेः, न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि, फलार्थिनां काम्यानि च; न तान्यपि निःश्रेयसाधूनि,"स्वर्गकामः" [] "पशुकामः" इत्यादिवत् "मोक्षकामोदः कुर्यात्” इत्यश्रवणान्; अतः संसार एव कर्मणां फलमित्यर्थ:।

  कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह--इदानीमिति । कर्मण उपादानेऽनुष्ठाने यो हेतुस्तन्निवृत्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थे प्रारभ्यते । अतः सनिदानकर्मोन्मूलनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः । कर्मानुष्ठाने हेतुर्नियोगः, तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्क्याऽऽह-कर्महेतुरिति । अस्येदं साधनामित्येतावच्छात्रेण बोध्यते; यस्य तत्राभिलाषः, स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकत्वसंभावनाऽपीत्यर्थः। सति कामे प्रवृत्तिरित्यन्वय उक्तः । कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह--आप्तेति । अभिलषितविषयप्राप्तिः कामनिवृत्तेर्हतुः, न विद्या । अतः कथं कर्महेतुपरिहाराय विद्यारम्भः?--इत्याशङ्क्याऽऽह -- आत्मकामत्वे चेति । कामितविषयप्राप्तौ कामस्योत्कळिकोपशममात्रं, न तूच्छेदः, पुनर्विषयाकाङ्क्षादर्शनात्।


(१) ऋ. ड. ४०४-६, ५ (२) तै उ २-११ (३) २२७-१ (४) २-८१. (५) जै. स. १-३-१ (६ ) महाना. उ. २२-३१ (७) तै.सं. २५-६६ ७४१. त १६-३-३- (८ ) २१-६-२. है. सं. २-४-६.

  1. (१)ऋ. ड.४०४-६,५
  2. (२)तै उ २-११
  3. (४) २-८१
  4. (५) जै. स.१-३-१
  5. (६ )महाना.उ.२२-३१
  6. (७)तै.सं.२५-६६ ७४१.त १६-३-३