पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तैत्तिरीयोपनिषत्

न च्, कर्महंतून कामानां शानाभावे निवृत्त्यसंभवात्, अशेषकर्मक्षयोपपतिः। अन्नात्मविदो हि कामः , अनात्मफलविषयत्वात्; स्कत्मनि च कामानुपपत्ति दिष्टाप्तहृत् ; स्वयं चाऽऽत्मा परं ब्रहेत्युक्तम् । नित्यानां चाकरणमभावःततः प्रत्यवायानुपपत्तिः-इत्यतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रि याया नित्याकरणं लक्षणम्-इति “अकुर्वन्विहितं कर्म’-इति शतुर्ननुपपतिः ।


नेत्यादि । यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत उस्रङः, तथाऽपि सवित स्यानेकस्य संभवाव् , हेत्वभावोऽसिढं इत्यर्थः । प्रायणेनाभिव्यक्तानि सर्वाण्येव कर्माणि संभूयैकं शरीरमारभन्ते, तत्र सर्वेषामुपभोगेनैव धपितत्वात् , सञ्चितं कर्मेव नास्तीति शगनिराकरणयोक-विरूद्धफळानीति। स्वर्गनरकफळानां ज्योतिष्टोमब्रह्महत्यादी नामेकस्मिन्देहे भोगेन क्षयासंभवाव , प्रायणस्य सर्वाभिव्यञ्जकत्वे प्रमाणाभावाद, बलवता प्रतिबदस्य दुर्बलस्यावस्थानं संभवतीत्यर्थः । संभावनामात्रमेतत्, नात्रप्रमाणमस्तीत्याश छयाऽद्ध-कर्मशेषेति।“प्रेत्य स्वकर्मफळमनुभूय ततः शेषेण .....जन्म प्रतिपद्यन्ते इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः। सञ्चितकर्मसद्भावमङ्गीकृत्य , देहान्तरारम्भोः न भविष्यतीत्याह--इष्टेति । एतदाह्नां सिद्धान्तविरुद्धमित्याह-नेति । मुमुक्षुणाऽतुष्टि तस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह-यदि नामेति ।

यचोलो-युमुक्षुः काम्यानि वर्जयेत्--इति तदप्यसति विवेकबले दुर्घटम्, सति मूळाक्षाने कामोद्भवस्य दुर्निवारत्वादित्याह--न च, कर्महेतूनामिति । ननु-कामौ नांवानमूलः आत्मविदामपि कामदर्शनादित्यत आह--स्वात्मनि चेति । सर्वमात्मेति पश्यतां तवतो. त्रिषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव, वास्तवाभिनिवे शाभावादित्यर्थः । तेषामप्यचिरादिमार्गेण ब्रह्मप्राप्तिकामनाऽस्ति -इति नाऽऽशङ्कनीयमित्याह स्वयं चेति। यचौक्तम्–अकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानि-इति तत्राऽऽह - नित्यानां चेति ।आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम्;. पापः पपेनं ” इति श्रुतेः निषिद्धचरणनिमित्तकत्वादुःखस्येत्यर्थः। ।

अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसीचेन्द्रियार्थेषु नरः पतनमृच्छति ॥

इति शतृप्रत्ययादकरणस्यापि निमित्तत्वमवगतमित्याशङ्कयाह-अतः पूर्वेति। यदि यथा- वनित्यनैमित्तिकानुष्ठानमभविष्यत्, तदा सञ्चितदुरितक्षयोऽभविष्यव; न चायं विहितमकार्षा ते, अतः प्रत्यवायो भविष्यति–इति शिरैर्दक्ष्यते,-यथा ‘अविचिकित्सक्छोत्रियः’ इति । ततः शतृप्रत्ययस्यान्यथाप्युपपन्नत्वात् , न तबलादकरणस्य हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।


(१) मनु. स्कू.११४४ तत्र ‘प्रायश्चित्तीयते नरः'--इति चतुर्थचरणः; याज्ञवल्क्यस्मृतौ ३-२१९ 'विहितस्य-इत्यादिश्लोकस्य चतुर्थचरणः ‘नरः पतनमृच्छति’ इति । (२) वृ. उ. ४४-५ः