पृष्ठम्:चम्पूभारतम्.pdf/८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथम स्तबक।


वक्र विलासमणिदर्पणधार्यमाण
वामा हिमाशुरयमित्यवधार्य यस्याम् ।
आदर्शबिम्बधृतिरमृतदृष्टपूर्वा
तस्येति तादृशधिय विनिवर्तयन्ति ॥ ७ ॥ ।
आलापकालसमपद्भविताह्नवीणा-
सौरभ्यपातिमधुपारवसकुलस्य ।
तीस्वनस्य समितौ तरुणीस्खरस्य
जानाति यत्र चतुरोऽपि न तारतम्यम् ॥ ८ ॥


नृसिंह , तन्न । तथापि गतयामचतुष्यद्योतकघण्टामाणिताडनाना रात्रिसबन्धिता सदेहे बाधकाभावेन पुनर्दिवसश्रमस्य दुर्वारत्वात् । एव सिद्धान्तिना घण्टाधिकारस्य प्रसिद्धिविरुद्धखाद्रीडाकरत्वाच्च प्रसिद्धिविरुद्धत्खाश्लीलाख्यदोषद्वयापत्तिश्चेति ॥ ६ ॥

 वक्रमिति । यस्या वामा सुन्दर्यो विलास प्रकाशस्तद्युक्तेन मणिदर्पणेने वार्यमाणम् । प्रतिबिम्बतयेति भाव । वक्त्र निजमुखम् । दृष्टेति शेष । अय पुरोवर्ती विशेष्यापेक्षा पुस्त्वनिर्देश । हिमाक्रुशुश्चन्द्र इत्युक्तप्रकारेण अवधाएँ । भ्रमि त्वेत्यर्थ । तस्य हिंसाशोरादरौ दर्पणे बिम्बस्य धृतिर्धारण आदर्शम् अमावास्या पर्यन्त बिम्बधृतिरिति च अश्रुतपूर्वादृष्टपूर्वा चेति । आलोच्येति शेष । उभयत्र. गम्यमानार्थत्वादप्रयोग । तत्प्रयोगे पुन पौनरुत्यसिल्यालकारिका । तादृशी धिय दर्पणगतोऽय चन्द्र इत्याकारकज्ञान विनिवर्तयन्ति त्यजन्ति । नाय चन्द्र कितु निजसुखप्रतिबिम्ब एवेति निश्चिन्वत इति यावत् । विशेषदर्शनजन्य भ्रमोत्तरप्रत्यक्षलकार ७ ॥

 आलापेति । यत्र नगर्यामालापस्य भाषणस्य रागविस्तारीकरणस्वरसदोहस्य सगीतशास्त्रप्रसिद्धस्य वा य कालस्तेन समम्। तत्काल एवेत्यर्थ । पद्भविताया । कुसुमिताया इति यावत् ।अन्यथा सौरभ्यानुपपत्तेरिति भाव । अद्वै उत्सद्धे वीणाया सौरभ्येन पातिना प्रविशता मधुपाना भृङ्गाणामारवेण सकुळस्य मिश्र स्येयुभयत्र विशेषणम् । तन्वीखनस्य तरुणीना स्खरस्य गानात्मकस्य च द्वयो समितौ [ साम्ये ] सत्याम् । ‘समिति सगरे साम्ये सभायामपि’ इति विश्व । तारतम्य न्यूनाधिक्य चतुरो निपुणोऽपि न जानाति । अत्रालिरवसवलनमाधुर्य- द्वयस्य तन्वीतरुणीस्खनतारतम्याज्ञानहेतुत्वादनेकपदार्थहेतुक काव्यलिकम् -- ‘हेतद्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् इति लक्षणात् ॥ ८ ॥


१ ‘विनिवारयन्ति’ इति पाठ