पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
गोपीगीता-


'भूरि चे-त्यमरः ॥ ३ ॥ यद्वा अस्मद्विरहात्कामानलतप्त तवकथां ऋतं सत्यं त्वां जीवनं सूत्रात्मरूपेणसर्वप्राणि जीवनम्। करणे ल्युट्। बाहुलकत्वाकर्त्तरि वा शेषं द्विती- यान्तं कृष्णविशेषणम्। अस्मिन्पक्षे श्रीमदाततमित्येकम्पदम्। श्रीमांश्चासावाततश्च श्रीमदाततस्तमिति कर्मधारथः। आत- तत्वञ्च व्यापकत्वम् ॥२॥ यद्वा ये गृणन्ति पश्यन्ति ते आजनाः" अनुकम्पायामाङ् त्वदनुकम्पार्हाजना इत्यर्थः।अनुकम्पायामाङिति मेदिनी। ते अ इत्यपिच्छेदः। पूर्वरूपेण रूपं सिद्धम्। अशब्दोनि- षेधार्थः। ये न गृणन्ति ते अजनाः नोत्पत्तिमन्तः तेषां जनिरपि अजनिरित्यर्थः ॥५॥ यद्वा आङीषदर्थे ईषज्जना इत्यर्थः ॥६॥ यद्धा इदेति सम्बोधनम्। ई कामं ददातीति इद' 'इकार उच्यते कामः' इति कोशः। अस्मिन्पक्षभूरित्यपिसम्बोधनम्। भवतीति हे भूः! हे सत्तारूप! मास्तु वा सम्बोधनम् ।भवान्सत्तामात्रमि- त्यर्थः। हे अ! ते जनास्वां गृणन्ति ॥७॥ यद्वा ते अभूः इद अ जना इतिच्छेदः। भुबि त्वमभूरजनिष्ट, अतः हे इद!भक्तकाम-पूरक हे अ!वासुदेव ते जनास्त्वां गृणन्ति॥८॥

 विरहपीडया अविचार्येव वराहावतारेण धरामुद्धर्तुस्त- वैव धरा,एतेन श्रीकृष्णं लोभयन्त्यः स्वाभिमूखी कुर्वन्ति। इदेति सम्बोधनेन सुरतमिच्छन्ति॥१३॥ यद्वा भूः धरा ते वराहावतारे- येन त्वयाधरा उद्धृता,अतस्तवैवभूः। तस्मिन्नेवावतारेकृष्णावतारे


 *आजना इत्येवास्तु मास्तुअच्छेद इति भावः।

 +इं कामं कर्दपं ददातीति इदस्तत्सम्बोधनम्।