पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
गोपीगीतार्थकौमुदीसहिता-


नः अस्मान् यदि न आप्याययस्व तर्हि न भवामः,इति शेषः। अस्माकं च तुर्यावस्था स्यादिति भावः॥२९॥

तव कथामृत न्तप्तजीवनं-

 कविभिरीडितं कल्मषापहम् ।।

श्रवणमङ्गलं श्रीमदातत-

 म्भुविगृणन्ति ते भूरिदाजनाः ॥६॥

 तवेति। यद्वा तवेत्यत्रत व इति पृथक् 'तकारः कीर्तितश्चौ' इति कोशः। वः सादृश्य 'ववायथे' त्यादि कोशः' हेनवनीतगोपि कादुकुलचोर!व शब्देन शादृश्यवाचिना आरोपितचौर्यम्बोध्यते, यतः परमार्थतो न भवांश्चोरः। भवतो लोकोद्धारणाय चोरव- ल्लीलामात्रम्, चोरवल्लीलाकरणेन यशोदादीनामुद्धारो वर्णितः, दुकूलगोपिकाचोरेणास्माकमुद्धारः ॥१॥ तवेत्यस्यवैपरीत्यपाठेल वतशब्देन खेदो खेदानुकम्पासन्तोषविस्मयामन्त्रणे वते' त्यमरः। खेदद्योतकश्च ऋतमिति विशेषणम्, सत्यमिति तदर्थः। सत्यत्व- च्च कालत्रयाबाध्यत्वम्। तच्च भगवति त्वयि एव नान्यस्मिन्' एतादृशेऽपि चौर्यप्रतिपादनन्तु खेदादिहेतु रेवमनुकम्पादिरपि योज्यः। प्राप्तसकलैश्वर्योऽपि भवांश्चौर्य करोतीतिविस्मयः। तव कथां ये गृणन्ति वर्णयन्ति शृण्वन्ति वा हे वतेति कृष्णा मन्त्रणम्। हे भूरिदेत्यपितत्सम्बोधनम् हे प्रचुरदातः!


 *प्रारोहणाबरोहणभेदेनक्रमस्यद्वैविध्यात्।