'भूरि चे-त्यमरः ॥ ३ ॥ यद्वा अस्मद्विरहात्कामानलतप्त
तवकथां ऋतं सत्यं त्वां जीवनं सूत्रात्मरूपेणसर्वप्राणि
जीवनम्। करणे ल्युट्। बाहुलकत्वाकर्त्तरि वा शेषं द्विती-
यान्तं कृष्णविशेषणम्। अस्मिन्पक्षे श्रीमदाततमित्येकम्पदम्।
श्रीमांश्चासावाततश्च श्रीमदाततस्तमिति कर्मधारथः। आत-
तत्वञ्च व्यापकत्वम् ॥२॥ यद्वा ये गृणन्ति पश्यन्ति ते आजनाः"
अनुकम्पायामाङ् त्वदनुकम्पार्हाजना इत्यर्थः।अनुकम्पायामाङिति
मेदिनी। ते अ इत्यपिच्छेदः। पूर्वरूपेण रूपं सिद्धम्। अशब्दोनि-
षेधार्थः। ये न गृणन्ति ते अजनाः नोत्पत्तिमन्तः तेषां जनिरपि
अजनिरित्यर्थः ॥५॥ यद्वा आङीषदर्थे ईषज्जना इत्यर्थः ॥६॥
यद्धा इदेति सम्बोधनम्। ई कामं ददातीति इद' 'इकार उच्यते
कामः' इति कोशः। अस्मिन्पक्षभूरित्यपिसम्बोधनम्। भवतीति
हे भूः! हे सत्तारूप! मास्तु वा सम्बोधनम् ।भवान्सत्तामात्रमि-
त्यर्थः। हे अ! ते जनास्वां गृणन्ति ॥७॥ यद्वा ते अभूः इद अ
जना इतिच्छेदः। भुबि त्वमभूरजनिष्ट, अतः हे इद!भक्तकाम-पूरक हे अ!वासुदेव ते जनास्त्वां गृणन्ति॥८॥
विरहपीडया अविचार्येव वराहावतारेण धरामुद्धर्तुस्त- वैव धरा,एतेन श्रीकृष्णं लोभयन्त्यः स्वाभिमूखी कुर्वन्ति। इदेति सम्बोधनेन सुरतमिच्छन्ति॥१३॥ यद्वा भूः धरा ते वराहावतारे- येन त्वयाधरा उद्धृता,अतस्तवैवभूः। तस्मिन्नेवावतारेकृष्णावतारे
*आजना इत्येवास्तु मास्तुअच्छेद इति भावः।
+इं कामं कर्दपं ददातीति इदस्तत्सम्बोधनम्।