पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
गोपीगीतार्थकौमुदीसहिता-


यद्वा आ इति सान्तमव्ययम्। रुत्वे यत्वे तल्लोपेसाधु, आजनाः इत्येवास्तु। ये न गृणन्ति ते आ जनाः। त्वत्कोपपीडार्हा जनाः इत्यर्थः, 'ये यथा माम्प्रपद्यन्ते' इत्युक्तेः * ॥ ॥६॥ यद्वा स्मृत्यर्थकाङा ये न गृणन्ति तेऽपि जनास्त्वया स्मर्तव्या न तूपेक्ष्याः। 'ये भजन्तितु माम्भक्तया” 'ये यथा माम्प्रपद्यन्ते' इति तु त्वया वक्तुमयोग्यम्। प्राकृतानामेवासौभेदव्यवहारः। परमदयालोर्भगवतस्तु स्वीयारित्वव्यवहारामावादित्यभिप्रायः॥१०॥ यद्वा धातुयोगजे आङ्। आ समन्ताज्जायन्ते इति आ- जनाः। ये गृणन्ति ते सुष्ठूत्पत्तिमन्तः। तेषांजनिरेव सफलजनि- रित्यर्थः ॥ ११ ॥ यद्वा सीमार्थकाङा ये गृणन्ति ते आजनाः तावदेव जनमर्यादा इति तु न सम्यक्। पञ्चम्या दुर्वारत्वात् ननु जनधात्वर्थस्यैव तेन मर्यादा बोध्यते न तु जनस्योत्पत्ति मतस्तथाचाङ् प्रयोज्यविषयतायाधात्वर्थनिष्ठविषयताया एव निरूप्यनिरूपकभावो नतु जननिष्ठविषयताया इति कर्मप्रवचनी- ययोगाभावान्नपञ्चमीप्राप्तिः। योगश्च स्वप्रयोज्यविषयतानि- रूपितविषयताप्रयोजकत्वरूप इति चेत्तथाप्यस्तु x ॥१२॥ यद्वा ते भूरितिच्छेदः, धरा पृथिवी तवैव अधरेतिपूर्व यत्संबोधनन्तत्तु विरहपीडया अविचार्येव वराहावतारेण वरामुद्धतु स्तवैव धरा एतेन श्रीकृह्म लोभयन्त्यः स्वाभिमुखीकुर्वन्ति इदेति सम्बो- धनेन = सुरतमिच्छन्ति ॥१३॥ यद्वा भूः धरा ते वराहावतारे येन


 *'अस्तु स्यात्कोपपीडयो रित्यमरः। एवमभिविधिपक्षेऽपि सक- लमभिव्याप्योत्पत्तिमन्तो जनाः विभुजना इति यावत्।

 =इंकानंकन्दर्य ददातीति इदस्तत्सम्बोधनम्।